पृष्ठम्:रामकथामञ्जरी.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(युग्मकम् ) (कृत-स्वस्त्ययनं मात्रा पित्रा दशरथेन च। पुरोधसा वसिष्ठेन मङ्गालैरभिपूजितम् ॥२५॥ स पुत्रं मूर्ध्न्यपाघ्राय राजा दशरथः प्रियम् । ददौ कुशिक-पुत्राय सुप्रीतेनान्तरात्मना ॥२६॥ विश्वामित्रो ययावग्रे ततोरामो धनुर्धरः। काक-पक्ष-धरो धन्वी तं च सौमित्रिरन्वगात् ॥२७॥ अध्यर्ध-योजनं गत्वा सरय्वा दक्षिणे तटे। रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत ॥२८॥ राममन्द्र-शिक्षणम् “मन्त्रग्राम गृहाण त्वं बलाप्रतिबलां तथा । एतद्विद्या-द्वये लब्धे न भवेत्सशस्तव" ॥२९॥ रामेण ताडकावधः ततो रामो जलं स्पृष्ट वा प्रहृष्ट-वंदनः शुचि । प्रतिजग्राह ते विध महर्षेर्भावितात्मनः ॥३०॥ स वनं घोर-संकाशं दृष्ट वा नृपवरात्मनः । (कृतस्वस्त्ययनम् ) कृतमङ्गलम् । ( पुरोधसा) पुरोहितेन । (धन्वी) धनुर्विद्याकृतश्रमः । (अन्वयात् ) अनुजगाम । (अध्यर्ध-योजनम् ) अर्धाधिकयोजनम् । (मन्त्रग्रामम् ) : बलाबलविद्यासंज्ञक मन्त्र-समूहम् । ( भावितात्मनः) ध्यातात्मस्वरूपात । (घोरसंकाशम् ) भयानक-दर्शनम् ।