पृष्ठम्:रामकथामञ्जरी.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तच्छुत्वा राज-सिंहस्य वाक्यमद्भुत-विस्तरम् । हृष्ट-रोमा महातेजा विश्वामित्रोऽभ्यभाषत ।।१९।। “यतु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम् । कुरुष्व राजशार्दूल भव सत्य-अतिश्रवः ॥२०॥ अहं नियममातिष्ठे सिद्धयर्थ पुरुषर्षभः । तस्य विघ्नकरो द्वौ तु राक्षसौ काम-रूपिणी । मारीचश्च सुबाहुश्च वीर्यवन्तो सुशिक्षितौ ॥२१॥ स्वपुत्रं राज-शार्दूल, राम सत्य-पराक्रमम् । काकपक्ष-धरं शूरं ज्येष्ठं मे दातुमर्हसि ॥२२॥ शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा राक्षसा ये विकर्माण स्तेषामपि विनाशने"।| रामस्य प्रस्थानम् तच्छुत्वा राजशार्दला विश्वामित्रस्य भाषितम् । प्रहृष्ट-बदनोराममाजुहाव सलक्ष्मणम् ॥२४ ।। (अद्भुतविस्तरम् ) दैवतं हि भवान्ममेत्याद्युक्ति-रूपमाश्चर्य प्रपञ्चम् । (तस्थ ) तद्वाक्य-प्रतिपाद्यस्व । (निश्चयम् ) करिष्यामीति अङ्गीकारम् । ( सत्यप्रतिश्रवः ) सत्यप्रतिज्ञः। आतिष्ठे) प्रास्थितोऽस्मि (कामरूपिणौ ) यथेच्यारूपधारिणौ । (कक्षधरम् ) बालानां कपोलसमीपे शिखा काकपक्षः । (विघ्नकर्तारः विघ्नकर्तारः । आजुहाव ) आहूतवान्