पृष्ठम्:रामकथामञ्जरी.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ते चापि मनुज-व्याघ्राः वैदिकाध्ययने रताः पितृ-शुश्रूषण-रता धनुर्वेदे च निष्ठिताः । सर्वे वेद-विदः शूराः सर्वे लोक-हिते रताः ॥१३॥ तेषामपि महातेजा रामः सत्य-पराक्रमः । इष्टः सर्वस्व लोकस्य शशाङ्क इव निर्मलः ॥१४॥ राम-याचनाय विश्वामित्रागमनम् अथ राजा दशरथस्तेषां दार-क्रियां प्रति । चिन्तयामास धर्मात्मा सोपाध्यायः स-बान्धवाः॥१५ तस्य चिन्तयमानस्य मन्त्रि-मध्ये महात्मनः । अभ्यागच्छन् महातेजा विश्वामित्रो महामुनिः॥१६ अथ हृष्ट-मना राजा विश्वामित्रं महामुनिम् । उवाच परमोदारो हृष्टस्तममिपूजयन् ।।१७।। "अद्य मे सफलं जन्म जीवितं च सुजीवितम् । ब्रूहि यत्प्रार्थितं तुभ्यं कार्यमागमनम्प्रति । कर्ता चाहमशेषेण दैवतं हि भवान्मम ॥१८॥ (अनुजव्याघ्राः ) पुरुषसिंहाः । ( वैदिकाध्ययने ) वेदसम्बध्यध्ययने। ( तेषां ) मिति निर्धारणे षष्ठी । ( इष्टः ) प्रियः । (शशाङ्कः) चन्द्रः। (दारक्रियाम् ) विवाहम् । ( सोपाध्यायः ) सपुराहितः । ( ब्रूहीत्यादि ) (तुभ्यं ) ते. { षष्ठ्यर्थे चतुर्थी ) । ( यत्कार्यं प्रति) यत्काव्यार्थम् आगमनं तन्मया प्रार्थितः सन् ब्रूहि ! (दैवतम् ) इष्टदेवोऽतः पूज्यः।