पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ राजतरङ्गिणी

प्रागेव सरसस्तस्मात्कुशलैः शिल्पिभिर्मया |
तावृद्धृतौ प्रातरत्र प्राप्तौ द्रक्ष्यस्यसंशयम् ॥ ४४९ ॥
तयोः प्रतिष्ठा क्रियतामित्युक्त्वा पृथिवीभुजम् ।
देवी प्रयाता शुद्धान्तं सिद्धान्सस्मार खेचरान् ॥ ४५० ॥
ते ध्यातमात्राः संप्राप्ता देव्यादेशेन पाथसः ।
उद्धृत्य नृपतेर्धाम्नि देवौ हरिहरौ न्यधुः ॥ ४५१ ॥
दिव्यैः प्रसूनैः संवीतौ हरनारायणौ जनः ।
प्रातर्नृपगृहे दृष्ट्वा परं विस्मयमाययौ ॥ ४५२ ॥
सज्जे प्रतिष्टालग्नेथ माहेश्वरतया नृपः |
रणेश्वरप्रतिष्ठायां पूर्व यावत्समुद्यतः ॥ ४५३ ॥
रणारम्भानुभावेन तावदेवाद्भुतावहः ।
स्वयं पीठे रणस्वामी भित्त्वा यत्रमुपाविशत् ॥ ४५४ ॥
कर्तुं प्रभावजिज्ञासां राज्ञा दत्तधनस्ततः ।
स स्वयंभूः स्वयं भक्तैस्तांस्तान्ग्रामानदापयत् ॥ ४५५ ॥
कुम्भदासतया छन्नः सिद्धो ब्रह्माभिधो वसन् ।
परिज्ञाय तयोर्देव्या प्रतिष्ठाकर्म कारितः ॥ ४५६ ॥
स वृत्तप्रत्यभिज्ञः सन्प्रतिष्ठाप्य रणेश्वरम् ।
व्योम्ना व्रजन्रणस्वामिप्रतिष्ठां गूढमादधे ॥ ४५७ ॥
जनास्त्वलक्षयन्यत्स स्वयं पीठमवातरत् ।
इति केषामपि हृदि प्रवचोद्यापि वर्तते ॥ ४५८ ॥
सा ब्रह्मप्रतिमं सिद्धं देवी ब्रह्मविदां वरम् ।
अकारयत्तमुद्दिश्य परार्ध्य ब्रह्ममण्डपम् ॥ ४५९ ॥
रणारम्भास्वामिदेवौ दंपतिभ्यां व्यधीयत ।
मठः पाशुपतानां च ताभ्यां प्रद्युम्नमूर्धनि ॥ ४६० ॥

♥ .