पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयस्तरङ्गः ।

मर्त्यसंस्पर्शभीरुः : सा महादेवीभवन्त्यपि ।
तं मायया मोहयन्ती न पस्पर्श कदाचन ॥ ४३७ ॥
व्यधान्मायामयीं राशस्तल्पे स्वसदृशीं स्त्रियम् ।
स्वयं सा भ्रमरीरूपा निर्जगाम वहिर्निशि ॥ ४३८ ॥
स नाम्ना स्वस्य देव्याश्च कृत्वा सुरगृहद्वयम् ।
माहेश्वरे शैललिङ्गे कारयामास कारुभिः ॥ ४३९ ॥
श्वः प्रतिष्ठाप्रसङ्गेथ सजे तल्लिङ्गयोयम् ।
देशान्तरागतः कश्चिदृपयामास दैववित् ॥ ४४० ॥
स दृष्टप्रत्ययः शश्वत्तयोर्घटितलिङ्गयोः ।
अश्मखण्डैः समण्डूकैर्वभाषे गर्भमावृतम् ॥ ४४१ ॥
किंकर्तव्यतया मूढं प्रतिष्ठाविघ्नविह्वलम् ।
दिव्यदृष्टिः स्वयं देवी ततो राजानमब्रवीत् ॥ ४४२ ॥
राजन्गिरिसुतोद्वाहे पौरोहित्यं पुरा भजन् ।
स्वमर्चादेवमादत्त पूजाभाण्डात्प्रजापतिः ॥ ४४३ ॥
तां विष्णोः प्रतिमां वीक्ष्य पूजितां तेन धूर्जटिः ।
शून्यामिव तदा मेने शक्तिरूपां विना शिवम् ॥ ४४४ ॥
निमन्त्रितैढौंकितानि रत्नान्यथ सुरासुरैः ।
पिण्डीकृत्य स्वयं चक्रे लिङ्गं भुवनवन्दितम् ॥ ४४५ ॥
तां विष्णुप्रतिमां तच्च लिङ्गमीशानपूजितम् ।
स्वयं प्रजासृजः पूज्यं कालेनादत्त रावणः ॥ ४४६ ॥
तेनाप्यभ्यर्च्यमानं तङ्कायामभवच्चिरम् ।
देवद्वयं रावणान्ते नीतमासीञ्च वानरैः ॥ ४४७ ॥
तिर्यक्तया ते कपयो मुग्धा हिमनगौकसः ।
शान्तौत्सुक्याः शनैर्देवौ न्यधुरुत्तरमानसे ॥ ४४८ ॥

८७