८६ राजतरङ्गिणी
स तामुवाच सत्यां चेद्देवि स्वां गिरमिच्छसि ।
प्रमाणीकुरु मद्राणीमहमन्यन्न कामये ॥ ४२५ ॥
पूर्वमेव हि जन्तूनां योधिवासो निलीयते ।
तिलानामिव तेषां स पर्यन्तेपि न शीर्यते ॥ ४२६ ॥
देवी वा भवकान्ता वा भीमा वा शोभनापि वा ।
यादृशीं पूर्वमद्राक्षं तादृश्येवावभासि मे ॥ ४२७ ॥
तमित्थं कथयन्तं सा ज्ञात्वा निश्चलनिश्चयम् ।
एवं जन्मान्तरे भावीत्यभ्यधादनुरोधतः ॥ ४२८ ॥
उत्सहन्ते हि संस्प्रटुं न दिव्या मर्त्यधर्मिणः |
तद्गच्छ क्रूरसंकल्पेत्युक्त्वा सान्तर्दधे ततः ॥ ४२९ ॥
अशून्यजन्मा भूयासं तया देव्येति चिन्तयन् ।
प्रयागवटशाखाग्रादहासीत्स वपुस्ततः ॥ ४३० ॥
सोजायत रणादित्यो रणारम्भा च सा भुवि ।
मर्त्यभावेपि या नैव जहाँ जन्मान्तरस्मृतिम् ॥ ४३१ ॥
रतिसेनाभिधश्चोलराजः सज्जोब्धिपूजने ।
तां तरङ्गान्तराल्लेभे रत्नराजिमिवोज्ज्वलाम् ॥ ४३२ ॥
आ वाल्याद्व्यक्तदिव्योक्तिं तामलंकृतयौवनाम् ।
दिव्याहा॑ पृथिवीशेभ्यो नाथिभ्योपि ददौ नृपः ॥ ४३३ ॥
रणादित्यनृपामात्ये दृत्यायाते तथैव तम् ।
प्रत्याख्यानेच्छुमाचख्यौ सैव तद्वरणं वरम् ॥ ४३४ ॥
तदर्थमेव कथितस्वोत्पत्तिं तां ततः पिता ।
द्रुतं कुलतभूभर्तुः सुहृदः प्राहिणोद्गृहान् ॥ ४३५ ॥
प्रहृष्टोविप्रकृष्टं तं देशं गत्वा व्यधत्त ताम् ।
परिणीय रणादित्यः शुद्धान्तस्याधिदेवताम् ॥ ४३६ ॥