पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयस्तरङ्गः ।

नृपतिस्तस्य दृक्पातैर्ज्वलद्भिः कपिशीकृतः ।
उल्काज्योतिःकृताश्लेषः कुलाद्रिरिव दिद्युते ॥ ३४१ ॥
तमथ प्रतिशब्देन घोरेणापूरयन्दिशः ।
अत्रासं विहसन्नुच्चैरुवाच क्षणदाचरः ॥ ३४२ ॥
संत्यज्य विक्रमादित्यं सत्त्वोद्रितं च शूद्रकम् ।
त्वां च भूपाल पर्याप्तं धैर्यमन्यत्र दुर्लभम् ॥ ३४३ ॥
वसुधाधिपते वाञ्छासिद्धिस्तव विधीयते ।
सेतुमेतं समुत्तीर्य पार्श्वमागम्यतां मम ॥ ३४४ ॥
इत्युदीर्य निजं जानुं रक्षः पारात्प्रसारयत् ।
तन्महासरितो वारि सेतुसीमन्तितं व्यधात् ॥ ३४५ ॥
अङ्गेन रक्षःकायस्य ज्ञात्वा सेतुं प्रकल्पितम् ।
वीरः प्रवरसेनोथ विकोशां क्षुरिकां दधे ॥ ३४६ ॥
स तयोत्कृत्य तन्मांसं कृतसोपानपद्धतिः ।
अतरद्यत्र तत्स्थानं क्षुरिकावाल उच्यते ॥ ३४७ ॥
पार्श्वस्थं तं लग्नमुक्त्वा प्रातर्मत्सूत्रपातनम् ।
दृष्ट्वा पुरं विधेहीति चदद्भूतं तिरोदधे ॥ ३४८ ॥
देव्या शारिकयाट्टेन यक्षेणाधिष्ठिते च सः ।
ग्रामे शारीटकेपश्यत्सूत्रं वेतालपातितम् ॥ ३४९ ॥
भक्त्या प्रतिष्ठां प्राक्कस्मिन्निनीषौ प्रवरेश्वरम् ।
जयस्वामी स्वयं पीठे भित्त्वा यन्त्रमुपाविशत् ॥ ३५० ॥
वेतालावेदितं लग्नं जानतो जगतीभुजा ।
स्थपतेः स जयाख्यस्य नाम्ना प्रख्यापितोभवत् ॥ ३५१ ॥
नगराप्रातिलोम्याय भक्त्या तस्य विनायकः ।
प्रत्यङ्मुखः प्राङ्मुखतां भीमस्वामी स्वयं ययौ ॥ ३५२ ॥

७९