पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ राजतरङ्गिणी

यशोर्थिनः पार्थिवेषु द्वेषरागबहिष्कृतः ।
ववृधे धर्मविजयस्तस्य क्षितिशतक्रतोः ॥ ३२९ ॥
वैरिनिर्वासितं पित्र्ये विक्रमादित्यजं न्यधात् ।
राज्ये प्रतापशीलं स शीलादित्यापराभिधम् ॥ ३३० ॥
सिंहासनं स्ववंश्यानां तेनाहितहृतं ततः ।
विक्रमादित्यवसतेरानीतं स्वपुरं पुनः ॥ ३३१ ॥
हेतूनुदीर्य विविधानमन्वानं पराजयम् ।
सप्त वारान्स तत्याज जित्वा मुम्मुनिभूभुजम् ॥ ३३२ ॥
धाष्टर्यादथाष्टमे बारे हेतुमाख्यातुमुद्यतम् ।
धिक्पशून्वध्यतां सोयमित्यूचे नृपतिः क्रुधा ॥ ३३३ ॥
अवध्योहं पशुत्वेन वीरेत्युक्त्वा भयोत्सुकः ।
मध्येसभं ननर्तास्य सोनुकुर्वन्कलापिनम् ॥ ३३४ ॥
नृत्तं केकां च शिखिनो दृष्ट्वास्मै द्रविणं नृपः ।
अभयेन समं प्रादात्तालार्धचरणोचितम् ॥ ३३५ ॥
चसतोस्य दिशो जित्वा ननुः पैतामहे पुरे ।
कर्तु पुरं स्वनामाङ्कं प्रथते स्म मनोरथः ॥ ३३६ ॥
रात्रौ क्षेत्रं च लग्नं च दिव्यं ज्ञातुमथैकदा ।
स वीरो वीरचर्यायां निर्ययौ पार्थिवार्यमा ॥ ३३७ ॥
गच्छतः क्षमापतेस्तस्य मौलिरत्नाग्रबिम्बितः ।
बभार ताराप्रकरो रक्षासर्षपविभ्रमम् ॥ ३३८ ॥
अथानन्तचितालोकस्पष्टभीमतद्रुमाम् ।
श्मशानप्रान्ततटिनीं पर्यटन्नाससाद सः ॥ ३३९ ॥
ततस्तस्य सरित्पारे मुक्तसंरावमग्रतः ।
ऊर्ध्वबाहु महद्भूतं प्रादुरासीन्महौजसः ॥ ३४० ॥