सामग्री पर जाएँ

पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
राजतरङ्गिणी

तत्त्वं गुणवतामग्र्यस्तत्वज्ञैश्चाभिनन्दितः।
परीक्षितो मणिरिव व्यक्तं बहुमतः सताम्‌॥३०५॥
तस्मादनुगृहाणास्मान्मा स्म त्याक्षीर्नरेन्द्रताम्।
ममापि ख्यातिमायातु गुणवत्पक्षपातिता॥३०६॥
पूर्वं तेनाथ चरमं मयापि प्रतिपादिताम्‌ ।
भवान्प्रतिप्रणयिनीं विदधातु पुनर्भुवम्‌॥३०७॥
अव्याजौदर्यचर्यस्य श्रुत्वेति नृपतेर्वचः।
कृतस्मितो मातृगुप्तः शनैर्वचनमब्रवीत्॥२०८॥
यान्यक्षतराण्यन्तरेण वाच्यं वक्तु न पार्यते।
का गतिस्तदुपादाने मर्यादोल्लङ्गनं विना॥२०९॥
अतः परूषमप्यद्य किंचिदेव मयोच्यते।
अव्याजार्जवमप्येतदार्यत्वमवधीर्य ते॥३९०॥
सर्वैः स्मरति सर्वस्य प्रागवस्थासु लाघवम्‌।
आत्मैव वेत्ति माहात्म्यं वतमाने क्षणे पुनः॥३११॥
पूर्वावस्था मदीया ते त्वदीया या च मे ह्रदि।
ताभ्यां विमोहितावावां न विद्धोन्योन्यमाशयम्‌॥३१२॥
राजा भूत्वा कथं माद्रक्प्रतिग्रह्णातु संपदः।
कथमेकपदे सर्वमौचित्यं परिमार्जतु॥३१३॥
असाधारणमौदार्यमाहात्म्यं तस्य भूपतेः।
भोगमात्रकृते माद्दक्किं साधारणतां नयेत्‌॥३१४॥
अपि च स्पृहयालुः स्यां भोगेभ्यो यदि भूपते।
ध्रियमाणेभिमाने मे केन ते विनिवारिताः॥३१५॥
यन्ममोपकृतं तेन तद्धिना प्रत्युपक्रियाम्‌।
जीर्णमेवाधुनाङ्गेषु प्रभवत्वेष निश्चयः॥३१६॥

१ पाणिप्रणयिनीं इत्युचितम् ।