नयता गण्यतामस्मानन्तरज्ञेन तेन हि ।
च भस्सनि हुतं सर्पिर्नोप्तं वा सस्यमूषरे॥२९४॥
उपकारं स्मरन्तस्तु कृतज्ञत्ववशंवदाः।
पदवीमुषकर्तृणां यान्ति निश्चेतना अपि॥२९५॥
निर्वाणमनु निर्वाति तपनं तपनोपलः ।
इन्दुमिन्दुमणिः किंच शुष्यन्तमनु शुष्यति॥२९६॥
पुण्यां वाराणसीं गत्वा तस्माच्छमसुखोन्मुखः।
इच्छामि सर्वसंन्यासं कर्तुं द्विजजनोचितम्॥२९७॥
मणिदीपमिवेदशं तमन्तरेणान्धकारिताम्।
बिभेमि द्रष्टुमप्युर्वीं भोगयोगे कथैव का॥२९८॥
इत्यौचित्यनिधेस्तस्य वाणीमाकर्ण्य विस्मितः।
धीरः प्रवरसेनोपि व्याजहारोचितं वचः॥२९९॥
सत्यं विश्वंभरा देवी भूपते रत्नसूरियम्।
उत्पत्या द्योतते धर्म्यैः कृतज्ञैर्या भवाद्रशैः॥२३०॥
अन्तरज्ञया श्लाघ्यः कोन्यस्तस्मान्महीभुजः।
इत्थं जडे जगत्येकस्त्वां यथावद्धिवेद यः॥३०१॥
चिरं खलु खिलीभूताः कृतज्ञत्वस्य वीथयः।
धीर त्वयेव न त्वासु संचारो यादि दर्श्यते॥३०२॥
पाकश्चेन्न शुभस्य मेद्य तदसौ प्रागेव नादात्किमु
स्वार्थश्चेन्न मयास्य किं न भजते दीनान्स्वबन्धूनयम्।
मत्तो रन्ध्रदृशोस्य भीर्यदि न तल्लुब्धः किमेष व्यजे-
दिव्यन्तः पुरुषाधमः कलयति प्रायः कृतोपत्क्रियः॥३०३॥
अत्युदात्तगुणेष्वेषा कृतपुण्यैः प्ररोपिता।
शतशाखीभवत्येव यावन्मात्रापि सत्किया॥३०४॥
१ द्योत्यते इत्युचितम् ।