पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
तृतीयस्तरङ्गः।

भावं भवस्तद्भवतो भगवान्दत्तदशेनः।
साफल्यं नेष्यतीत्येवमभिधाय तिरोदधे॥२७१॥
साम्राज्येच्छोः समामेकां तत्र तस्य तपस्यतः।
लब्धस्मृतेः सैद्धगिरा प्रददौ दर्शनं शिवः॥२७२॥
व्रतिवेषं तमादिष्टवाञ्छितार्थसमर्पणम्।
स जगन्निर्जयोन्निद्रं नरेन्द्रत्वमयाचत॥२७२॥
उपेक्ष्य मोक्षं किं क्ष्माभृभ्दोगानिच्छसि भङ्गुरान्।
इति जिज्ञासुना भावं शंभुना सोभ्यधीयत॥२७४॥
स तं वभषे शंभुं त्वां बुद्ध्वा व्याजतपोधनम्‌।
अभ्यधामिदमद्धा त्वं न स देवो जगद्गुरुः॥२७५॥
महान्तो ह्यर्थिताः स्वल्पं फलन्त्यल्पेतरत्स्वयम्।
उदन्यया वदन्योदाद्दुग्धाब्धिं स पयोर्थिने॥२७६॥
अस्य वेकल्यकैवल्यालाभनिश्चलचेतसः।
नो वेत्स्यभिजनस्याभिभूतिं मर्मव्यथावहाम्॥२७७॥
जगत्परिवृढः प्रौढप्रीतिस्तं स फलार्थिनम्।
कृत्वा प्रादुष्कृतवपुस्ततो भूयोभ्यभाषत॥२७८॥
मज्जतो राज्यसौख्येषु सायुज्यावाप्तिदूतिकाम्।
मदाज्ञयाश्वपादस्ते संज्ञां काले करिष्यति॥२७९॥
इत्युक्तवान्तर्हिते देवे स कृतव्रतपारणः।
अगच्छदश्वपादं तमापृच्छ्याभिमतां भुवम्‌॥२८०॥
ततो विदितवृत्तान्तो मातृगुप्ताभिषेणनात्।
निषिध्य सविधायातानमात्यानव्रवीद्वचः॥२८१॥
विक्रमादित्यमुत्सिक्तमुच्छेत्तुं यतते मनः।
मातृगुप्तं प्रति न नो रोपेणारूषितं मनः॥२८२॥

१ सफलार्थनम् इत्युचितम्