पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
राजतरङ्गिणी

विवेचकतया तस्य श्लाघ्यया सुरभीरृताः।
लक्ष्मीविलासाः क्ष्माभर्तुरशोभन्त मनीषिषु॥२५९॥
हयाग्रीववधं मेण्ठस्तदग्रे दर्शयन्नवम्।
आसमाप्ति ततो नापत्साध्वसाध्विति वा वचः॥२६०॥
अथ ग्रथयितुं तस्मिन्पुस्तकं प्रस्तुते न्यधात्‌
लावण्यनिर्याणभिया तदधः स्वर्णभाजनम्‌॥२६१॥
अन्तरज्ञतया तस्य तादृश्या कृतसत्कृतिः।
भर्तृमेण्ठः कविर्मेने पुनरुक्तं श्रियोर्पणम्॥२६२॥
स्र मातृगुप्तस्वाम्याख्यं निर्ममे मधुसूदनम्‌।
कालेनादत्त यद्ग्रामान्मम्मः स्वसुरसद्मने॥२६३॥
इत्यासादितराज्यस्य शासतः क्ष्मां क्षमापतेः।
त्रिमासोना ययुस्तस्य सैकाहाः पञ्च वत्सराः॥२६४॥
कृतार्थतां तीर्थतोयैराञ्जनेयो नयन्पितृन्।
जातं तादृशमश्रौषीत्स्वस्मिन्देशे पराक्रमम्‌॥२६५॥
पितृशोकार्द्रता तस्य क्रोधेनान्तरधीयत।
तरोरिवार्कतापेन नैशाम्बुलवसिक्तता॥२६६॥
श्रीपर्वते पाशुपतव्रतिवेषस्तमागतम्।
आचख्यावश्वपादाख्यः सिद्धः कन्दाशनं ददत्‌॥२६७॥
जन्मान्तरे लब्धसिद्धिस्त्वामस्म्युपरिसाधकम्।
वाञ्छाम्पृच्छं राज्यार्थमभिलाषस्तु तेभवत्‌॥२६८॥
सयत्नं तव कर्तुं तन्मनोरथमनन्यथा।
अथ मामित्थमादिक्षत्क्षपारमणशेखरः॥२६९॥
गणोयं मामकः सिद्धौ यस्तवोपरिसाधकः।
जन्मान्तरेस्य राज्येच्छां कुर्यामहमनन्यथा॥२७०॥