पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० राजतरङ्गिणी

मातृगुप्त इति श्लाघ्यं भवतामेव नाम किम् ।
एवमेवैतदित्यूचे सोपि तान्विहितस्मितः ॥ २३६ ॥
कः कोत्र संनिधातॄणामित्यत्र्यत वाक्ततः ।
राज्याभिषेकसंभारो दृश्यते स्म च संभृतः ॥ २३७ ॥
ततः कलकलोत्तालभूरिलोकसमाकुलः ।
प्रदेशः क्षणमात्रेण सोभूत्क्षुभ्यन्निवार्णवः ॥ २३८ ॥
अथ प्राङ्मुखसौवर्णभद्रपीठप्रतिष्ठितः ।
संनिपत्त्य प्रकृतिभिर्मातृगुप्तोभ्यषिच्यत ॥ २३९ ॥
तस्य विन्ध्यतटव्यूढवक्षसः परिनिर्लुठत् ।
सशब्दमभिषेकाम्बु रेवास्रोत इवाबभौ ॥ २४० ॥
अथ स्नातानुलिप्ताङ्गं सर्वाङ्गामुक्तभूषणम् ।
व्यजिज्ञपंस्तं राजानं ऋान्तराजासनं प्रजाः ॥ २४१ ।।
अथितेन स्वयं त्रातुं विक्रमादित्यभूभुजा ।
निर्दिष्टः स्वसमानस्त्वं शाधि नः पृथिवीमिमाम् ॥ २४२ ॥
मण्डलानि विलभ्यन्ते येनानेन प्रतिक्षणम् ।
मा मंस्था मण्डलं राजन्विलब्धं तदिदं परैः ॥ २४३ ॥
कर्मभिः स्वैरवाप्तस्य जन्मनः पितरौ यथा ।
राज्ञां तथान्ये राज्यस्य प्रवृत्तावेव कारणम् ॥ २४४ ॥
इत्थं स्थिते परं कंचित्त्वदीयोस्मीति शंसता ।
न नेया भवता राजन्वयमात्मा च लाघवम् ॥ २४५ ॥
इति तैस्तथ्यमुक्तोपि संस्मरन्स्वामिसत्क्रियाम् ।
मातृगुप्तो महीपालः क्षणमासीत्कृतस्मितः ॥ २४६ ॥
दानेन सुदिनं कुर्वन्नवराज्योजितेन सः ।
तत्रैव मङ्गलोदग्रं तदहो निरवर्तयत् ॥ २४७ ॥