पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणो

उपायं तं पुरस्कृत्य सेवते सेवकः प्रभुम् ।
अनन्तरज्ञस्तत्रैव योग्यं तं किल मन्यते ॥ २१४ ॥
सुखार्थी नागारिप्रतिभयशमात्प्रत्युत सुखं
जहौ शेषस्तल्पीकृततनु निषेव्यासुररिपुम् ।
यतस्तेना मुष्मिन्नधिगतवता क्लेशसहतां
श्रमादायि न्यस्तं निरवधि घराभारवहनम् ॥ २१५ ॥
अयमेतद्गृहीतेषु गुणवत्सु गुणाधिकम् ।
आत्मानं गुणवान्पश्यन्नास्थयैनमशिश्रियत् ॥ २१६ ॥
अनन्तरज्ञः कोन्योस्माद्गुणान्दर्शयतेधिकान् ।
अस्मै गुणवते पूजां यश्चकार किलेटशीम् ॥ २१७ ॥
यो नानाद्युतिमत्पदार्थरसिकोसारेपि शक्रायुधे
सप्रेमा स विलोक्य वर्हमिह मे किं किं न कुर्यात्प्रियम् ।
इत्याविष्कृतबर्हराजि नटते यो बहिणेम्भोलवा-
नान्यन्मुञ्चति तं विहाय जलदं कोन्योस्ति शून्याशयः ॥ २१८ ॥
गच्छतो मातृगुप्तस्य निर्देन्यस्यैव वर्त्मसु ।
नाभूद्भाव्यर्थमाहात्म्याद्विकल्पः कोपि चेतसि ॥ २१९ ॥
अहंपूर्विकयोयद्भिनिमित्तैः शुभशंसिभिः ।
स वितीर्णकरालम्ब इव न श्रममाददे ॥ २२० ॥
अपश्यत्स फणाकोटौ खञ्जरीटमहेः पथि ।
स्वप्ने प्रासादमारुह्य स्वं चोल्लङ्घतसागरम् ॥ २२१ ॥
अचिन्तयच्च शास्त्रज्ञो निमित्तैः शुभशंसिभिः ।
एतैर्भूभर्तुरादेशो ध्रुवं मे स्याच्छुभावहः ॥ २२२ ॥
फलं मम तनीयोपि कश्मीरेषु भवेद्यदि ।
अनर्घदेशमाहात्म्यात्किं किं नातिशयेत तत् ॥ २२३ ॥

१ यं इत्युचितम् | 1.