पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयस्तरङ्गः ।

व्यक्तं मौक्तिकरत्नतां जलकणान्संप्रापयत्यम्बुधिः
प्रायोन्येन कृतादरो लघुरपि प्राप्तोर्च्यते स्वामिभिः ॥ २०२ ॥
इदं संचिन्तयन्सोभूत्सेव्ये तस्मिन्निरादरः ।
खिन्नस्य हि विपर्येति तत्त्वज्ञस्यापि शेमुषी ॥ २०३ ॥
प्रभातायां विभावर्यामथास्थानस्थितो नृपः ।
आकार्यतां मातृगुप्त इति क्षत्तारमादिशत् ॥ २०४ ॥
ततः प्रधावितानेकप्रतीहारप्रवेशितः ।
प्रविवेश महीभर्तुस्त्यक्ताश इव सोन्तिकम् ॥ २०५ ॥
तस्मै कृतप्रणामाय मुहूर्तादेव पार्थिवः ।
भ्रूसंज्ञितेन व्यतरल्लेखं लेखाधिकारिणा ॥ २०६ ॥
स्वयं च तमुवाचाङ्ग कश्मीरान्वेत्ति किं भवान् ।
गत्वा तत्राधिकारिभ्य एतच्छासनमर्प्यताम् ॥ २०७ ॥
स शापितोस्मद्देहेन यो लेखं वाचयेत्पथि ।
संविदेषा प्रयत्नेन विस्मर्तव्या न जातुचित् ॥ २०८ ॥
अविज्ञाताशयो राज्ञस्तामाज्ञां क्लेशशङ्कितः ।
सोबुद्ध दहनज्वालां न तु रत्नाङ्कुरद्युतिम् ॥ २०९ ॥
यथादेशस्तथेत्युक्त्वा मातृगुप्ते विनिर्गते ।
निर्गर्वः पूर्ववद्राजा तस्थावाप्तैः सहालपन् ॥ २१० ॥
अथाक्लेशोचितं क्षाममपाथेयमबान्धवम् ।
दृष्ट्वा यान्तं मातृगुप्तं निनिन्देति नृपं जनः ॥ २११ ॥
अहो नरेश्वरस्येयं यत्किंचनविधायिता ।
पृथग्जनोचिते कर्मण्यर्हतो निदधाति यः ॥ २१२ ॥
दुराशया धृतक्लेशं सेवमानमहर्निशम् ।
ध्रुवं क्लेशाईमेवैनं ज्ञातवानबुधो नृपः ॥ २१३ ॥

६७