सामग्री पर जाएँ

पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
तृतीयस्तरङ्गः

तदाकर्ण्य महीपालः साधुवादैः परिश्रमम्‌ ।
अभिनन्द्य कवीन्द्रं तं पूर्वस्थानं व्यसर्जयत्‌ ॥ १८२ ॥
अचिन्तयञ्च धिङ्मां यः सगुणात्खिन्नचेतसः ।
दुःखोत्तप्तं वचः श्रृण्वन्नेवमेवाधुना स्थितः ॥ १८२ ॥
निरर्थकान्साधुवादानन्यस्येव विदन्मम ।
अयमज्ञातहृदयो दुःखमास्ते ध्रुवं बहिः ॥ १८४ ॥
चिरं चिन्तयतो यत्नात्सदृशीमस्य सत्क्रियाम् ।
अथवास्यैव सूक्तेन स्मारितोस्म्यधुना यथा ।
देयं महार्हमद्यापि न किंचित्प्रतिभाति मे ॥ १८५ ॥
वर्तते राजरहितं काम्यं काश्मीरमण्डलम् ॥ १८६ ॥
पात्रायास्मै मही तस्मात्सा मया प्रतिपाद्यते ।
अवधीर्य महीपालान्महतोप्यर्थनापरान् ॥ १८७ ॥
इति निश्चित्य चतुरं क्षपायामेव पार्थिवः।
गूढं व्यसर्जयद्दूतान्काश्मीरीः प्रकृतीः पति ॥ १८८ ॥
आदिदेश च तान्यो वो दर्शयेच्छासनं मम ।
मातृगुप्ताभिधो राज्ये निःशङ्कं सोभिषिच्यताम्‌ ॥ १८९. ॥
अथ दूतेषु यातेषु लेखयित्वा स्वशासनम्।
क्ष्मापतिस्तं क्षपाशेषं कृतकृत्योत्यवाहयत् ॥ १९० ॥
मातृगुप्तस्तु नृपतेः संलापमपि निष्फलम्‌ ।
ध्यायन्गृहीतनैराश्यस्त्यक्तभार इवाभवत्‌ ॥ १९१ ॥
अन्तर्दध्यौ च कर्तव्यं कृतं शान्तोद्य संशयः ।
आशापिशाचिकात्यक्त्तश्चतिष्याम्यधुना सुखम्‌ ॥ १९२ ॥
गतानुगतिकत्वेन कोयमासीन्मम भ्रमः
जनप्रवादात्सेव्यत्वं येनास्य ज्ञातवानहम्‌ ॥ १९३ ॥