पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङ्गिणी

अथ दीपोज्ज्वले धाम्नि लसद्दिप्तहसन्तिके ।
कदाचिन्नृपतिर्दैवादर्धरात्रे व्यवुध्यत ॥ १७१ ॥
स हेमन्तानिलैर्भुरिभांकारपरुषैः पुरः ।
दीपान्प्रकम्पितानीपत्प्रविष्टैर्धाम्नि दृष्टवान्‌ ॥ १७२ ॥
तानुज्ज्वलयितुं भृत्यानन्विष्यन्नभ्यधात्ततः ।
यामिकेषु वहिः सज्जः को वर्तत इति स्फुटम्‌ ॥ १७३ ॥
सुखसुप्तेषु सर्वेषु बाह्यकक्ष्यान्तरात्ततः।
राजन्नयमहं मातृगुप्त इत्यश्रृणोद्वचः ॥ ९७७ ॥
प्रविशेति स्वयं राज्ञा दत्तानुज्ञस्ततो गृहम् ।
लक्ष्मीसांनिध्यरम्यं तददृष्टोन्यैर्विवेश सः ॥ १७५५ ॥
दीपानुज्ज्वलयेत्युक्तो निष्पाद्य चतुरैः पदैः ।
बहिर्यियासुरूचेथ क्षणं तिष्टेति भूभुजा ॥ १७६ ॥
स भयद्विगुणीभूत्शीतकम्पकः प्रभोः पुरः ।
किंस्विद्वक्त्तीति विमृष्न्नातिदूरेभ्युपाविशत् ॥ १७७ ॥
अथ पप्रच्छ भूपालः कियत्यस्ति निशेति तम्‌ ।
सोभ्यधाद्देव यामिन्या यामः सार्धोवशिष्यत् ॥ १७८ ॥
ततो भूभृदुवाचैनं कथं सम्यङ्गिशाक्षणः।
त्वयावधारितो निद्रा कथं नाभूच्च ते निशि ॥ १७२. ॥
अथ कृत्वा क्षणाच्छ्लोकमेतं तं स व्यजिज्ञपत्‌ ।
अवस्थावेदनादाशां दैन्यं वा त्यक्त्तुमुद्यतः ॥ १८० ॥
शीतेनोद्धृषितस्य माषशिमिवच्चिन्तार्णवे मज्जतः |
शान्ताग्निं स्फुटिताघरस्य धमतः क्षुत्क्षामकण्ठस्य मे ।
निद्रा क्वाप्यवमानितेव दयिता संत्यज्य दूरं गता
सत्पात्रप्रतिपादितेव वसुधा न क्षीयते शर्वरी ॥ १८१ ॥