एवं स सेवमानस्तमुद्योगेन बलीयसा ।
अनिर्विण्णो मातृगुक्तः षडृतूनत्यवाहयत् ॥ ९५९. ॥
अथ तं कृशसर्वाङ्गं धूसरं जीर्णवाससम् ।
बहिर्जातु विनिर्यातो राजा वीक्ष्य व्यचिन्तयत् ॥ १६० ॥
वैदेशिको निःशरणो गुणवान्बान्धवोज्झितः।
दार्ढ्यं जिज्ञासुना कष्टं सोयमायासितो मया ॥ १६९१ ॥
कोस्याश्रयः किमशनं कानि प्रावरणानि वा।
इत्यैश्वर्यविमूढेन मया हन्त न चिन्तितम् ॥ १६२ ॥
वसन्तेनेव न मया शोभयाद्यापि योजितः ।
शीतवातातपैः शुष्यन्सोयं पुरुषपादपः ॥ १६३ ॥
अस्य ग्लानस्य भैषज्यं निर्विण्णस्य विनोदनम् ।
श्रान्तस्य वा क्लमच्छेदं को विदध्यादसंपदः ॥ १९४ ॥
नास्मै चिन्तामणिं दद्यां नामृतं वा निषेवितः
मया यदयमेतावद्मामूढेन परीक्ष्यते ॥ १६५ ॥
तदमुष्य गुणित्वस्य तीव्रसेवाश्रमस्य च ।
प्रतिपत्त्या कतमया तावदानृण्याप्नुयाम् ॥ १६६ ॥
इति चिन्तयतस्तस्य राज्ञस्तं सेवकं प्रति ।
स्वप्रसादोचिता काचित्त्प्रत्यभान्नैव सत्क्रिया ॥ १५६७ ॥
ततः प्रावर्तत स्फारनीहारलववाहिभिः।
दहन्निवाङ्गं प्रालेयपवमानैर्हिमागमः ॥ १६८ ॥
संततध्वान्तमिषतस्तीव्रशीतवशीकृताः ।
आशाश्चकाशिरे नीलनिचोलाच्छादिता इव ॥ १६०. ॥
शीतार्त्या द्युमणावौर्वदहनोष्माभिलाषतः।
द्रुतं यातीव जलधिं दिनानि लघुतां ययुः ॥ १७० ॥
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/७२
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
तृतीयस्तरङ्गः ।