राजतरङ्गिणी
स विलङ्घितगव्यूतिरुपविश्य तरोरधः ।
जनमेकैकमुद्वाष्पं न्यवर्तयत सान्त्वयन् ॥ १६३ ॥
पथि शिखरिणां मूले मूले विलम्ब्य जहजना-
न्मितपरिकरो गच्छन्नूर्ध्व क्रमात्समदृश्यत ।
गहनवसुधाः संपूर्योच्चैर्वजन्स निजात्पदा-
नद इव विनिर्यातः स्तोकैः कृतानुगमो जलैः ॥ १६४ ॥
निःशेषं निकटात्स लोकमटवीमध्ये निरुन्धत्पदं
शोकावेशसबाष्पगद्गदपदं संमान्य चोत्सार्य च ।
भूर्जत्वक्परिरोधमर्मरभरुन्निद्राणसिद्धाध्वग-
श्रेणी मौलिमणिप्रभोज्ज्वलगुहागेहं जगाहे वनम् ॥ १६५ ॥
अथ वनसरसीतटदुमाधः
पुटकघटोदर संभृताम्बुपूराम् ।
वसतिमकृत वासरावसाने
शुचितरुपल्लवकल्पितोच्चतल्पाम् ।। १६६ ।।
शृङ्गासक्तमितातपाः शवलितच्छायाभुवः शाइलै-
रुत्फुल्लामलमल्लिकातलमिलत्सुप्त व्रजस्त्रीजनाः ।
सध्वाना वनपालवेणुरणितोन्मिथैः प्रपाताम्बुभिः
श्रान्तं दृक्पथमागतास्तमनयन्निद्रामदूराद्रयः ॥ १६७ ॥
वनकरिरसितैः पदे पदे स
प्रतिभटतां पटहध्वनेर्दधानैः ।
अमनुत रटितैश्च कर्करेटोः
परिगलितां गमनोन्मुखस्त्रियामाम् ॥ १६८ ॥
अन्येद्युविधिवदुपास्य पूर्वसंध्या-
मासन्ने नलिनसरस्यपास्तनिद्रः ।