पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
द्वितीयस्तरङ्गः

प्रोतशूले श्रुते तस्मिञ्शोकशङ्कुर्महीपतेः।
निरगाद्रोगभग्नस्य पूर्वे पश्चात्तु जीवितम्‌॥८०॥
सप्तत्रिंशतिवर्षेषु यातेष्वस्मिन्निरन्वये।
प्रशान्तभूमिपालाभूत्कतिचिद्दिवसानि भूः॥८१॥
अथ संधिमतिं बुद्धा तथा व्यापादितं गुरोः।
ईशानाख्यस्य हृदयं विवशं वशिनोप्यभूत्॥८२॥
शिरीष इव संसारे सुखोच्छेद्ये मनीषिणाम्‌।
हन्तानृशंस्यं तद्धृन्तमिवैकमवशिष्यते॥८२॥
स श्मशानभुवं प्रायादनाथस्येव शुष्यतः।
कर्तुं विनयिनस्तस्य स्वोचितामन्तसत्क्रियाम्॥८४॥
तं चास्थिशेषमद्राक्षीत्कृष्यमाणं बलाद्धृकैः।
शूलमूलावबद्धास्थिखण्डावष्टम्भनिश्चलम्॥८५॥
समीरणसमाकीर्णमुन्डरन्ध्राग्रनिर्गतैः।
ध्वनितैरनुशोचन्तमिवावस्थां तथाविधाम्‌॥८६॥
हा वत्स द्रष्टुमीद्दक्ते जीवाम्यद्येति वादिना।
तस्याकृष्यत शूलान्तःप्रोतं तेनाथ कीकसम्‌॥८७॥
वेष्टिताङ्घ्रिः शिरःशीर्णैस्तत्कचैर्धूलिधूसरैः।
अनैषीत्तं स कङ्कालं वारयन्भषतो वृकान्॥८८॥
उचितां सत्क्रियां कर्तुं ततस्तस्य समुद्यतः।
भाले विधातृलिखितं श्लोकमेतमवाचयत्॥८९॥
यावज्जीवं दरिद्रत्वं दश वर्षाणि बन्धनम्‌।
शूलस्य पृष्ठे मरणं पुना राज्यं भविष्यति॥९०॥
पादत्रयस्य दृष्टार्थः श्लोकस्यासीत्स योगवित्‌।
द्रष्टव्ये तुर्यपादार्थप्रत्यये कौतुकान्वितः॥९१॥