पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
राजतरङ्गिणी

अचिन्तयच्च संभ्रान्तः कथमेतद्भविष्यति।
उवाच च विधेः शक्तिमचिन्त्यां कलयंश्चिरम्॥९२॥
तत्तत्कर्मव्यतिकरकृतः पारतन्त्र्यानुरोधा-
त्सज्जाः सर्वे व्यवसितहठोन्मूलनाय प्रयत्नात्।
चित्रं तत्राप्युदयति विधेः शक्तिरत्यद्भुतेयं
यन्माहात्म्याद्विविधघटनासिद्धयो निर्निरोधाः॥९३॥
मणिपूरपुरे पार्थं निहतं समजीवयत्‌।
फणिकन्याप्रभावेन सर्वाश्चर्यनिधिर्विधिः॥९४॥
द्रोणपुत्रास्त्रनिर्दग्धं मातुर्गर्भे परीक्षितम्।
जीवयन्कृष्णमाहात्म्याद्धाता धुर्योधिकारिणाम्‌॥९५॥
कचं भस्मीकृतं दैत्यैर्नागांस्तार्क्ष्येण भक्षितान्‌।
पुनजीवयितुं को वा देवादन्यः प्रगल्भते॥९६॥
इत्युक्त्वा भाविनोर्थस्य द्रष्टुं सिद्धिं समुद्यतः।
तत्रैव बद्धवसतिः कङ्कालं स ररक्ष तम्‌॥९७॥
अथार्धरात्रे निर्निद्रस्तयैवाद्भुतचिन्तया।
धूपाधिवासमीशानो घ्रातवान्दिव्यमेकदा॥९८॥
उच्चण्डलाडनादण्डोद्धृष्ट्घण्टौघटांकृतैः।
चण्डैर्डमरुनिर्घौषैर्घर्घरं श्रुतवान्ध्वनिम्‌॥९९॥
उद्धाटिततमोरिः स ततः पितृवनावनौ।
दर्दश योगिनीस्तेजःपरिवेषान्तरस्थिताः॥१००॥
तासां संभ्रममालक्ष्य कङ्कालं चापवाहितम्‌।
इशानस्तां श्मशानोर्वीं धृतासिश्चकितो ययौ॥१०१॥
अथापश्यत्तरुच्छन्नः शायितं मण्डलान्तरे।
संधीयमानसर्वाङ्गं कङ्काल्ं योगिनीगणैः॥१०२॥