सामग्री पर जाएँ

पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ राजतरङ्गिणी

यद्यसाध्यानि दुःखानि च्छेत्तुं न प्रभविष्णुता ।
तन्महीपाल महतां महत्त्वस्य किमङ्कनम् ॥ ४६ ॥
कः शक्रः कतमः स्रष्टा वराकः कतमो यमः ।
सत्यव्रतानां भूपानां कर्तुं शासनलङ्घनम् ॥ ४७ ॥
पत्यौ भक्तिव्रतं स्त्रीणामद्रोहो मत्रिणां व्रतम् ।
प्रजानुपालनेनन्यकर्मता भूभृतां व्रतम् ॥ ४८ ॥
उत्तिष्ठ व्रतिनामग्य व विपर्योति मइचः ।
प्रजापाल प्रजानां ते नास्त्येव क्षुत्कृतं भयम् ॥ ४९ ॥
इति संरम्भतः प्रोक्ते तयानुध्याय देवताः ।
प्रतिगेहं गतप्राणः कपोतनिवहोपतत् ॥ ५० ॥
प्रातस्तन्नृपतिर्वीक्ष्य व्यरंसीन्मरणोद्यमात् ।
प्रजाश्च प्रत्यहं प्राप्तैः कपोतैर्जीवितं दधुः ॥ ५१ ॥
वस्त्वन्तरं किमपि तत्साध्वी नूनं ससर्ज सा |
जनताजीवितावाध्यै न कपोतास्तु तेभवन् ॥ ५२ ॥
तादृशां नहि निर्व्याजप्राणिकारुण्यशालिनाम् ।
हिंसया धर्मचर्यायाः शक्यं क्वापि कलङ्कनम् ॥ ५३ ॥
अभवन्निर्मलं व्योम देवीकृत्यैः सह क्रमात् ।
साकं भूपालशोकेन दुर्भिक्षं च शमं ययौ ॥ ५४ ॥
सा भूतिविभवोदग्रमग्रहारं द्विजन्मनाम् ।
सती कतीमुषां चक्रे रामुषां चापकल्मषा ॥ ५५ ॥
वर्षेः षशिता शान्ते पत्यौ विरहजो ज्वरः ।
तत्यजे ज्वलनज्वालानलिनप्रच्छदे तया ॥ ५६ ॥
सा यत्र शुचिचारित्रा विपन्नं पतिमन्वगात् ।
स्थानं जनैस्तद्वाक्पुष्टाटवीत्यद्यापि गद्यते ॥ ५७ ॥