सामग्री पर जाएँ

पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयस्तरङ्गः ।

अतिक्रान्तप्रभावेयं कालदौरात्म्यपीडिता ।
निष्किचनाद्य संजाता पृथिवी गतगौरवा ॥ ३५ ॥
तदिमाः सर्वतो मना दारुणे व्यसनार्णवे ।
उपाय: कतमस्तावत्समुद्धर्तु क्षमः प्रजाः ॥ ३६॥
निरालोको हि लोकोयं दुर्दिनग्रस्तभास्करः ।
कालरात्रिकुलैविष्वक्परीत इव वर्तते ॥ ३७ ।।
हिमसंघातदुर्लङ्घयक्षितिभृदुद्धनिर्गमाः ।
बद्धद्धारकुलायस्थखगवद्विवशा जनाः ॥ ३८ ॥
शूराश्च मतिमन्तश्च विद्यावन्तश्च जन्तवः ।
कालदौरात्म्यतः पश्य जाता निहतयोग्यताः ॥ ३९ ॥
आशाः काञ्चनपुष्पकुड्यलकुलच्छन्ना न काः क्ष्मातल
सौजन्यामृतर्वार्षभिस्तिलकितं सेव्यैर्न किं मण्डलम् ।
पन्थानः सुचिरोपचाररुचिरैर्व्याप्ता न कैः संस्तुतै-
स्तेषामत्र वसन्ति निद्रुतगुणाः कालेन ये मोहिताः ॥ ४० ॥
तदेष गलितोपायो जुहोमि ज्वलने तनुम् ।
न तु द्रष्टुं समर्थोस्मि प्रजानां नाशमीदृशम् ॥ ४१ ॥
धन्यास्ते पृथिवीपालाः सुखं ये निशि शेरते ।
पौरान्पुत्रानिव पुरः सर्वतो वीक्ष्य निर्वृतान् ॥ ४२ ॥
इत्युक्त्वा करुणाविष्टो मुखमाच्छाद्य वाससा |
निपत्य तल्पे निःशब्द रुरोद पृथिवीपतिः ॥ ४३ ॥
निवातस्तिमितैर्दीपैरुड्रीवैः कौतुकादिव ।
वीक्ष्यमाणाथ तं देवी जगाद जगतीभुजम् ॥ ४४ ॥
राजन्प्रजानां कुकृतैः कोयं मतिविपर्ययः ।
येनेतर इव स्वैरमधीरोचितमीहसे ॥ ४५ ॥

9