पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
centerराजतरङिणि
 


प्रजापीडनसंतापात्समुद्धूतो हुताशनः।
राज्ञः कुलं श्रियं प्राणान्नादग्ध्वा विनिवर्तते ॥ १५८२ ॥
दग्ध्वाथ राजधानीं तामुच्चलो डामरान्वितः।
अल्यक्तसैन्यं वीक्ष्यारिं पारमेवातरत्पुनः ॥ १५८३ ॥
ततो युद्धा मर्तुमिच्छन्निन्ये राजाकुलात्मताम्‌ ।
उच्चावचैर्मतिदैधै पदातीनां क्षणे क्षणे ॥ १५८४ ॥
गच्छन्नन्तपालादि राजपुत्रधिया मृधम् ।
दण्डनायकवाक्येन न्यषिध्यत पदे पदे ॥ १५८५ ॥
युध्यस्व लोहरं वापि याहीत्युचे च चण्पकः ।
प्रयगस्योत्तरः पक्षः प्रत्यभान्नग्रिमं पुनः ॥ १५८६ ॥
वार्तामबुद्वा पुत्रस्य नृपतिर्व्याकुलीभवन् ।
पदवीं भोजदेवस्य यादीत्याह स्म चण्पकम्‌ ॥ १५८७ ॥
्रप्रयागमात्रनुचरो राजन्संपत्स्यसे क्षणात्‌ ।
तस्मान्मामपि मा त्यक्षीरित्यूचे तं स निःश्वसन्‌ ॥ १५८८ ॥
सोन्तर्वाष्पस्तं बभाषे निद्रोदोसीति कथ्यते ।
त्वयाप्यस्मिन्क्षणे कस्मात्तस्मादुल्ल्ङ्यते वचः ॥ १५८९. ॥
विना पुत्रं न पस्यामि सार्कैपि दिवसे दिशः।
त्वं तस्मिन्नङ्कसंवृद्धे न मन्युं कर्तुमर्हसि ॥ १५९.० ॥
अश्वानिमित्तं करहस्तेष्वेव दिवसेष्वभूत्‌ ।
मन्रिणो राजपुत्रेण तेन तस्याभिमानिना ॥ १५९१ ॥
गिरा प्रभोरुपालब्धस्तदागुरणगर्भया ।
स लजज्जानम्रवदनो राजपु्त्रानुसार्यगात् ॥ १५९२ ॥
- पञ्चाताश्चवारेः स भ्रादृभ्रत्यादिभिः समम्‌ ।
उत्तीणैः सरितः पारमात्मनापञ्चमोभवत्‌ ॥ १५९३ ॥

}}