पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६९
सप्तमस्तरङ्ः


तस्य द्रोदफलं दृष्टमेतस्मिन्नेव जन्मनि ।
मण्डले यदनन्यस्मिन्भित्वा जीवितं जहौ ॥ १५४६
ततो राजा सरित्तीरं प्राप्तः प्रैक्षत डामरान्‌ ।
सेत्वग्रे श्यामविकृतान्दावदग्धान्द्रुमानिव ॥ १५४७ ॥
वलक्षवारवाणस्य तेषां मध्ये वपुर्बक्षौ ।
परं जनकचन्द्रस्य शुक्रस्येव तमोन्तरे ॥ १५४८ ॥
महासेतुः स घटितो राज्ञा नौक्षिः स्वसिद्धये ।
पर्यवस्यद्विधिवशाच्छत्रूणां सिद्धये पुनः ॥ १५४९ ॥
अथारुरुहुरादाय वह्निं हर्म्यचतुष्किकाम् ।
शतद्वारे मर्तुकामा देव्यः शाहिसुतादिकाः ॥ १५५० ॥
लोके विरक्तः सेत्वग्रे दायादैः सह संगरम्‌ ।
ददर्शाश्वयुजीलागिमिव निर्विक्रियः प्रभोः ॥ १५५२ ॥
विजये सावशेषोसौ वह्निदानोद्यता प्रियाः ।
अनिशं वारयन्राजा सेत्वग्रे रणमग्रहीत्‌ ॥ १५५२ ॥
अथ विन्यस्तवर्माणं राजसेनागजं शरैः ।
सेतोर्जनकचन्द्राद्याः परमुखस्थमताडयन्‌ ॥ १५५३ ॥
स विद्धो मर्मसु शरैः पूत्कारोद्गारकृद्गजः ।
स्वचमूमेव चरणैरमृद्गाद्विमुखीकृता ॥ १५५४ ॥
विधिनेव विरुद्धेन सिन्धुरेण कदर्थिता ।
भ्रश्यत्पत्तिहयारोहा समपद्यत वाहिनी ॥ १५५५ ॥
सेतुं तीर्णस्ततो वैरिसैनिकैर्विमुखीकृतः।
शातद्वाराङ्गनं त्रस्तः साश्वारोहोविशन्न्ऱपः ॥ १५५६ ॥
उदात्तवेषरहितो रहोपि ददृशे न यः।
भुञ्जानस्यापि यस्यास्यमुद्रा नैव व्यभाव्यत ॥ १५५७ ॥

१ लोको इत्युचितम्‌ । २ सावरेषे इत्युचितम्‌ ।

9

।,