पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६८
राजतरङ्गिणी

ज्ञास्यस्याद्यान्तरं राजन्ममेत्युक्त्वा विनिर्गतः ।
खङ्गधाराजलैर्मानी म्लानिमक्षालयद्रणे ॥ १५३४ ॥
सर्वनाशादभूद्दुःखं तथा न ह्रदि भूपतेः ।
तदन्तरापरिज्ञानात्कृतज्ञस्य यथाधिकम्‌ ॥ १५२५ ॥
विभवैर्नित्यसंमूढा जानते त्वन्तरं नृपा ।
तदा शक्या यदा तेषां पलापैरेव सत्क्रिया ॥ १५२६ ॥
भोजेन निर्जितानीको विद्रुतः सुस्सलो रणात्‌ ।
लवणोत्सं पलाय्यागाद्द्विर्दर्शतगतागतः ॥ १५३७ ॥
प्रत्यावृत्तस्ततो भोजस्तीव्रातपकदर्थितः ।
उद्यानान्तस्तनुं तल्पे पित्रा सह मुहुर्जहौ ॥ १५२३८ ॥
अथोत्तरेणोदतिष्ठन्नादः पारान्नृपौकसः ।
ज्यायान्मल्लत्मजः प्राप्तः सेतुराच्छिद्यतामिति ॥ १५३९ ॥
सुस्सलेन हतं राज्यं नाद्यायासि द्रुतं यदि ।
स दण्डनायकेनाभूत्संदिष्ट इति पापिना ॥ १५४० ॥
अतो जवेन चाविक्षत्प्रथमं चावधीन्मृधे ।
नरेन्द्रेश्वरदेवाग्रवर्तिनं देवनायकम्‌ ॥ १५४१ ॥
अथोज्जगाम स्थामस्थः सह व्यूहेन सादिनाम्‌ ।
नगराधिकृतो नागस्तस्याग्राद्भूरिसैनिकः ॥ २५४२ ॥
यत्रास्थां पार्थिवोबन्धात्प्रधानपृतनान्विते ।
बक्षार नोच्चलाशङ्कां सुस्सलाहवनिर्गतः ॥ १५४३ ॥
अल्पसैन्यो मल्लसूनुर्यावत्तस्मादशङ्कत शङ्कत ।
अपनीतशिरस्त्राणस्तावत्स तमवन्दत ॥ १५४४ ॥
मण्डलेश्वरवत्तं स प्रियं शत्रोरविश्वसन् ।
ऊचे स्ववेश्म याहीति स च पापस्तथाकरोत्‌ ॥ १५४५ ॥