पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६६
राजतरङ्गिणी

केनाप्यधिष्ठितश्चक्रे परेद्युर्यत्स सुस्सलः ।
जाने विश्वसृजोप्यङ्गं रोमाञ्चयति तरत्स्मृतिः ॥ १५११ ॥
जासटो नृपतिर्हर्षभूक्षर्तुर्मातुलात्मजः ।
उमाधरसमुखाश्चान्ये राजानो यत्र च त्रयः ॥ १५१२ ॥
राजपुत्रहयारोहतन्त्रिसामन्तसंततेः ।
न यत्र गणना काचित्सैन्येष्वष्टादसशस्वभूत् ॥ १५१३ ॥
विजयेशाङ्गनस्थानां द्वारमुत्पाट्य सोविशत्‌ ।
एकाक्येवान्तरं तेषां सासिराक्षेपरूक्षवाक् ॥ २५१४ ॥
स तत्र साक्षिणं कृत्वा क्षमावान्विजयेश्वरम् ।
प्रतिश्रुत्याक्षतयं तेम्यः प्रणतेभ्यो विनिर्ययौ ॥ १५१५ ॥
पुनः सौधाग्रमारूढस्तान्सर्वानर्पितायुधान् ।
रज्जुबद्धकरान्भृत्यैरानिनाय ततोन्तिकम्‌ ॥ १५१६ ॥
स्वर्णरूप्यत्सरुश्रेणिपूर्णायुधपरिष्कृता ।
कीर्णपुष्पोपकारेव सुस्सलास्थानभूरभूरत् ॥ १५१७ ॥
विन्यस्य पशुपालानां पशूनिव स तान्करे ।
संरक्षितं डामराणां त्र्यहं तत्राकरोत्स्थितिम् ॥ १५१८ ॥
ततः सुवर्णसानूरग्रामं संप्राप्य बन्धनात्‌ ।
पट्टदर्शनापालौ द्वावौज्झीद्देषान्तरोन्मुखौ ॥ १५१९ ॥
पट्टः शूरपुरं प्राप्तो भार्ययागतया गृहात्‌ ।
संसृष्टमानोप्यस्मार्षीदल्पसत्त्वो दिगन्तरम्‌ ॥ १५२० ॥
यावन्मात्राप्यौचिती सा विदेशौन्मुख्यलक्षणा ।
द्रोग्धुर्दर्शनपालस्य पट्टमैत्र्या विसूजिता ॥१५२१ ॥
अहंपूर्विकया राज्यं जिघृक्षुरथ सुस्सलः ।
नगरासादनादैच्छदभिसंधातुमग्रजम्‌ ॥ १५२२ ॥
१ संसृज्यमानः इत्युचितम् ।