पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६५
सप्तमस्तरङ्गः

योद्धुमस्यापतन्तं तं चन्द्रराजोथ निर्गतः ।
पट्टदर्शनपालाद्यैः ससैन्यैः पर्यवर्ज्यत ॥ १४९९ ॥
निजैरूपेक्षितश्चक्रे स चिरं त्र दुष्करम्‌ ।
स्वल्पसैन्योपि संग्रामं भूरिसैन्येन शत्रुणा ॥ १५०० ॥
अक्षोरमल्लः समरे तत्र मल्लश्च चाचरिः ।
अगातां राजगृह्यौ द्वौ स्वर्गस्त्रीभोगभागिताम्‌ ॥ १५०१ ॥
 रजोन्धकारे छेत्रेन्दुद्योतिन्यालिङ्गितो हतः ।
चन्द्रराजः सुरस्त्रीभिरिन्दुराजोस्य चानुगः ॥ १५०२ ॥
तस्मिन्नपि हते वीरे चक्रे हर्षमहीभुजः ।
आषारविन्दिनीमूलकन्दनिर्दलनं विधिः ॥ २५०३ ॥
पट्टादयः प्रविश्याथ विजयेशाङ्गनं भयात्‌ ।
प्रविष्टे सुस्सले देशं द्वारं दत्तार्गलं व्यधुः ॥ १५०४ ॥
आस्थानीयः परं पद्मनामा युद्ध्वा हतो बहिः ।
लक्ष्मीधरो मर्तुमिच्छुर्बद्ध्वा नीतः स डामरैः ॥ १५०५ ॥
विजयेश्वरगञ्जाग्रसौधारूढोथ सुस्सलः ।
अधो ददर्श तान्सर्वान्पशूनिव भयाकुलान्‌ ॥ १५०६ ॥
धूर्तः स दत्तमध्यस्थो हसन्नानीतवान्पुनः ।
पट्टदर्शनपालौ द्वौ तेषां पूर्वं निजान्तिकम्‌ ॥ १५०७ ॥
निःश्रेण्यभावादारोढुमक्षमौ सुस्सलानुगैः ।
तौ मृताविव निर्बद्धपाणी रज्ज्वाधिरोपितौ ॥ १५०८ ॥
तयोर्विदेशगमनं व्रीडादर्थायमानयोः ।
प्रतिश्रुत्याकरोद्दीमान्सुस्सलो म्लानिमार्जनम् ॥ १५०९. ॥
स्निग्धोक्त्या भृष्टमांसादिभोगैस्तस्याग्रतस्तयोः । ॥
तस्मिन्नेवाह्नि मन्दत्वं विदेरौत्सुक्यमाययौ ॥ १५९१० ॥