पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६० राजतरङ्गिणी

भोगान्निर्वाणभूयिष्ठानिष्टान्प्राप्तानवेत्य तत् ।
प्रतिष्ठासौष्ठवत्राणे संरब्धं देव सांप्रतम् ॥ १४४२ ॥
दण्डकालसकाख्यस्य तद्रोगस्याशुकारिणः ।
पार्थिवाकस्मिकोत्थानं मिषादद्य प्रकाश्यताम् ॥ १४४३ ॥
श्वो वक्तास्स्यथ कर्तव्यं व्यापत्प्रक्षपणक्षमम् ।
उक्त्वेति स महामात्यो निर्गत्य स्वगृहानगात् ॥ १४४४ ॥
दण्डकालसकं दण्डधरो व्यञ्जन्मिषात्ततः ।
अधीर इव चक्रन्द लुठन्निः स्पन्दलोचनः ॥ १४४५ ॥
स्नेदसंवाहनस्नेहवमना द्यैरुपक्रमैः
तं
निःशैथिल्यव्यथं तेन मुमूर्षु तं जनोवदत् ॥ १४४६ ॥
ततो निश्चितमृत्युत्वं पत्युः कथयता कृतः ।
वह्निप्रवेशोमात्येन कृतज्ञत्वनिवेदकः ॥ १४४७ ॥
कर्तव्यशेषं दाक्षिण्यादनाचक्षाणमग्रतः |
युक्त्योक्तानिष्ठुराचारमन्तस्तुष्टाव तं नृपः ॥ १४४८ ॥
अप्रौढः सोढुमुद्दामां व्यथामस्मीति वादिना ।
राज्ञाप्यनलसाहेहं ततश्चक्रेभिमानिना ॥ १४४९ ॥
तेन प्राणानुपेक्ष्यैवमन्यख्यातेर्मनस्विना ।
ऊर्ध्वाधिरोहे सोपानं कृतं न निजकीर्तनात् ॥ १४५० ॥
एवं दैवोपनीतानामख्यातीनां चिकित्सितम् ।
स्वधियामात्यवुद्ध्या वा पारमेति मनस्विनाम् ॥ १४५१ ॥
इत्युक्त्ता विरतो वंशबीजरक्षार्थमात्मजः ।
भोजो विसृज्यतां कोटमेवमूचेथ मत्रिभिः ॥ १४५२ ॥

१ भूयिष्ठान्निष्ठां प्राप्तान् इति स्यात् । २ संरम्भो इति स्यात् । ३ युक्त्योक्त- निष्ठुराचारं इत्युचितम् |