पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

अलौकिके कृते यद्यत्तद्वीक्ष्य फलवन्ध्यताम् ।
प्राप्तोदयैरल्पसत्त्वैर्दर्पान्नूनं हसिष्यते ॥ १४२१ ॥
कार्यारम्भः फलोल्लासमालोक्य प्रायशो जनैः ।
अनानुगुण्यगणनां कुर्वाणैर्न विगर्ह्यते ॥ १४२२ ॥
पक्षान्तकोरिरवलम्बनभूः सनेत्रं
दुग्धेन यस्य मरणं घियि कैरिवेत्थम् ।
पारं गते मथनकर्मणि मन्दराद्रे-
दोषोते विगुणहेतुपरीक्षणेन ॥ १४२३ ॥
शास्त्रसंदर्भवित्त्वेपि श्रीगर्भत्वमदर्शयम् ।
जनोपजीवनार्थ यत्तजातं जाड्यसिद्धये ॥ १४२४ ॥
उच्चलेनापि मत्कृत्ये हस्ताग्रोञ्चेयचेतसा ।
दर्शितश्यामदशनं करिष्यन्ते विडम्बनाः ॥ १४२५ ॥
ततोवमानान्न त्रासात्संप्राप्तोद्य विहस्तताम् ।
समर्थनेच्छुर्वाञ्छामि मृत्युमीदृशमप्यहम् ॥ १४२६ ॥
स्वैरेव स हतो नोचेत्कस्तस्माद्वसुधां हरेत् ।
लब्धां रक्षितुमिच्छामि ख्यातिमेतेन हेतुना ॥ १४२७ ।।
मुक्तापीडः पुरा राजा ज्वलित्वा मूर्ध्नि भूभुजाम् ।
कार्पण्यप्रणयं प्राप लब्धरन्ध्रो विरोधिभिः ॥ १४२८ ॥
स ह्युत्तरापथे नानापथस्थगितसैनिकः ।
मितानुगोहितै रुद्धमार्गोभूदुर्गमेध्वनि ॥ १४२९ ॥
तं शल्यो नाम सामग्र्यवैरल्यविवशं नृपः ।
वन्दुं प्रतिज्ञामकरोद्वाजिलक्षैर्युतोष्टभिः ॥ १४३० ॥
'स सामप्रमुखोपायापायध्यानावसन्नधीः ।
भवस्वाम्यभिधं कृत्यमपृच्छन्मुख्यमत्रिणम् ॥ १४३१ ॥