पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५७ सप्तमस्तरङ्गः ।

पशून्पुरुषरूपान्स नूनं भूभृत्युपोष तान् ।
दुःखे नोदखन॑स्तस्य ये तादृग्दैन्यमीयुषः ॥ १४१० ॥
युगान्तानपि जीवित्वा काय: सापाय एव यः ।
तत्त्यागमात्रसाध्येर्थे धिग्दैन्यमनुजीविनाम् ॥ १४११ ।।
योषितोपि विशन्त्यग्निं यं ध्यात्वा विस्मृतिं व्रजेत् ।
भर्तृस्नेहः स पुंसोपि यस्य कोन्यस्ततोधमः ॥ १४१२ ॥
शैलूपस्येव ये शोकभयदैन्यादिविक्रियाः ।
भर्तुः पश्यन्ति तैरेषा भूः सतीर्थाप्यपावनी ॥ १४१३ ॥
क्षुत्क्षामस्तनयो वधूः परगृहप्रेष्यावसन्नः सुहृ
दुग्धा गौरशनाद्यभावविवशा हम्बारवोद्गारिणी ।
निष्पथ्यौ पितरावदूरमरणौ स्वामी द्विषन्निर्जितो
दृष्टो येन परं न तस्य निरये भोक्तव्यमस्त्यप्रियम् ॥ १४१४॥
भूयोपि मानुषपशून्स तान्नृपतिरब्रवीत् ।
उदात्तकृत्योप्याविश्य भूतैरिव विमोहितः ॥ १४१५ ॥
एतस्मिन्पश्चिमे काले भुक्तं राज्यं यथा मया ।
जाने विशालेच्छतया तथान्यो नोपभोक्ष्यते ॥ १४१६ ॥
यमः कुबेरश्चौष्ठाग्रे राज्ञां तिष्ठत इत्यसौ ।
मदेकशरणैवाभूत्ख्यातिरस्मिन्कलौ युगे ॥ १४१७ ॥
रुद्रोपेन्द्रमहेन्द्राद्याः प्रयातारो यदध्वना ।
उपस्थितायां नियतौ तत्र मर्त्यस्य काः शुचः ॥ १४१८ ॥
किंतु दूये यदेषा भूर्भूत्वा कुलवधूरिव ।
मद्दोषाद्धटचेटीव प्राप्ता प्रसभभोग्यता ॥ १४१९ ॥
इतः प्रभृति यः कश्चिद्राज्यस्यास्य गतौजसः ।
चक्रिकामात्रसाध्यत्वं जानन्नाशां करिष्यति ॥ १४२० ॥

। दुःखं इत्युचितम् ।