पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३५४ राजतरङगिणी

साहसे सा हि तनये यत्र तत्र महीभुजा ।
प्रहीयमाणे तं स्रेहमोहिताह स्म भूभुजम्‌ ॥ १३८१ ॥
अनन्यसंततेरेकं सुतमेतं प्रभो मम ।
मा नियुङ्क्था यत्र तत्र कार्ये संदेहितासुनि ॥ १३८२ ॥
- स तामकथयन्मातर्यथा तेनन्यसंततेः ।
तथा मेनन्यभ्रूत्यस्य सोयमेकोवलम्बनम्‌ ॥ १३८२ ॥
स्वसंभवस्य तां भर्तुर्भक्तिसंभावनामसौ ।
प्राप्तप्रतिष्टानिष्टायां मेने मानवती सती ॥ १३८४ ॥
उच्चलस्य क्षणे तस्मिन्हिरण्यपुरमीयुष: ।
राज्याभिषेकं संभूय तत्रत्वा व्राह्मणा ददुः ॥ १३८५ ॥
नृपमत्यन्तविवशं प्रसङ्गे तत्र मन्रिणः ।
भूयांसः सन्ति तैः सार्धे व्रज तल्लोहरोचलम् ॥ २३८६ ॥
प्रजा एव ततः शान्तोत्कण्ठा नवनृपं प्रति ।
त्वामानेष्यन्ति न चिराद्दिनैर्वा स्वयमेष्यसि ॥ १३८७ ॥
सोभ्यधादवरोधस्त्रीकोशसिंहासनाद्यहम् ।
असामान्यं परित्यज्य गन्तुं सपदि नोत्सहे ॥ १३८८ ॥
पुनस्तेकथयन्नाप्ता यान्तोध्यारुह्य वाजिनः ।
पृष्ठे विन्यस्य नेष्यन्ति कोशान्त:पुरयोषित: ॥ १३ ।
श्र्वपाकीकामुकोप्यासीद्दस्मिंस्तदपरोपि चेत्
सिंहासनं समारोहेत्काभिमानक्षतिस्तत: ॥ १३९० ॥
आस्तामेतत्परं ब्रूथ मन्रमित्यथ चोदिताः ।
ते पर्थिवेन भूयोपि ससंरम्भं बभाषिरे ॥ १२३९१ ॥
क्षत्रधर्मे पुरस्कृत्य शासतां क्षमां क्षमाभुजाम् ।
को दैन्यस्यावकाशः स्यादाशीर्येषां मृधे वधः || १३९२||