पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५१
सप्तमस्तरङ्गः


प्रागन्धकारो देशेस्मिन्दिवसेपि व्यजृम्भत ।
रूपिकादिवसालोक इति यत्पप्रथे जने ॥ १३४६ ॥
निवेशिते परीहासकेरावे प्रशशाम तत्‌ ।
तस्मिन्नुन्मूलिते भूयः सार्धे मासमजृम्भत ॥ १३४७ ॥
किंचिदुच्छ्वसिते राज्ञि मन्दोद्रेकतया रिपोः ।
दिशा शूरपुरस्थाथ सुस्सल: प्रत्यदृश्यत ॥ १३४८ ॥
अवनाहे स हि वसन्नुपालम्भपरैः पितुः ।
संदेशैः शंसतो ज्येष्टमौदासीन्यादपाहृत: ॥ १३४९ ॥
दत्तान्कह्लक्षितीशेन कांश्चिदादाय वाजिनः ।
चिरेण राजदाक्षिण्यमौज्झीत्तेन व्यलम्बत ॥ ९३५० ॥
आरम्भादुदयान्तं च तिष्ठन्वैरेपि निष्टुरे ।
साम प्रयुयुजे मोहावहं मायानिधी रिपोः ॥ २३५२ ॥
जित्वा माणिक्यनामानं तेन सेनापतिं रणे ।
प्रापि शूरपुरद्रङ्गाज्जयश्री श्रीश्च भूयसी ॥ १३५२ ॥
तस्याभ्युदयपात्रस्य तया संप्राप्तया श्रिया ।
आरब्धिसमय: कृत्स्नः स विभूत्यद्भुतोभवत् ॥ १३५३ ॥
मण्डलेश्वरपट्टादीनविचिन्त्योच्चलं ततः ।
प्राहिणोन्नृपतिर्योद्धुं सुस्सलं क्षिप्रकारिणम् ॥ १३५४ ॥
तेन शूरपुरे भग्नास्तद्योधा: शौर्यशालिना ।
भूयांसः प्रलयं प्रापुर्मग्ना वैतरणीजले ॥ १३५५ ॥
तत्र दर्शनपालस्य स्वामिद्रोहकृतो वपुः ।
विक्रामते न संस्पृष्टं खिन्नयेव जयश्रिया ॥ १३५६ ॥
राजसैन्यं तदन्येद्युर्हतशेषं पलायितम्‌ ।
लोकपुण्ये निवसतः सहेलस्यान्तिकं ययौ ॥ १३५७ ॥ "



१ विक्रामतो इट्युचितम्‌ ।