सामग्री पर जाएँ

पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमस्तरङ्कः| २७

तदाकर्णनसंरम्भे सहर्षोथ विरुद्धधीः ।
शतमन्यद्गजेन्द्राणां हठेन निरलोठयत्‌ ॥ ३०३ ॥
स्पर्शाोङ्गानि यथा वाचं कीर्तनं पापिनां तथा ।
संदूषयेदतो नोक्ता तस्यान्यापि नृशंसता ॥ ३०४ ॥
को वेत्त्यद्भुतचेष्टानां कृत्यं प्राकृतचेतसाम्‌ ।
धंर्म सुकृतसंप्राप्तिहेतोः सोपि यदाददे ॥ ३०५ ॥
श्रीनगर्यां हि दुर्बुद्धिर्विदधे मिहिरेश्वम्।
होलाडायां स मिहिरपुराख्यं पृथुपत्तनम्‌ ॥ ३०६ ॥
अग्रहाराञ्जगृहिरे गान्धारा ब्राह्मणास्ततः ।
समानशीलास्तस्यैव ध्रुवं तेपि द्विजाधमाः ॥ ३०७ ॥
मेधागमः फणिभुजं प्रथितान्धकारः
प्रीणाति हंसममलो जलदात्ययश्च ।
प्रीतेः समानरुचितैव भवेन्नितान्तं
दातुः प्रतिग्रहकृतश्च परस्परस्य ॥ ३०८ ॥
स र्वषसप्ततिं भुक्त्वा भुवं भूलोकभैरवः ।
भूरिरोगार्दितवपुः प्राविशज्जातवेदसम्‌ ॥ ३०९ ॥
सोयं त्रिकोटिहा मुक्तो यः स्वात्मन्यपि निर्घृणः।
देहत्यागेस्य गगनादुच्चचारेति भारती ॥ ३९० ॥
इत्यूचुर्ये मते तेषां स एव परिहारदः ।
खण्डयन्वीतघृणतामग्रहारादिकर्मेभिः ॥ ३११ ॥
आकान्ते दारदैर्भौट्टैर्म्च्छैरशुचिकर्मभिः।
विनष्टधर्मे देशेसिन्पुण्याचारप्रवर्तनम्‌ ॥ ३१२ ॥
आर्यदेदयान्स संस्ठाप्य व्यतनोद्दारुणं तपः ।
संकल्प्य स्ववपुर्दाहं प्रायश्चित्तक्रियां व्यधात्‌ ॥ ३९३ ॥


१ निदानं इत्युचितम्‌ ।