पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ राजतरङ्गिणी

अत एवाग्रहाराणां सहस्रं प्रत्यपादयत् ।
गान्धारदेशजातेभ्यो द्विजेभ्यो विजयेश्वरे ॥ ३१४ ॥
क्षुरखड्गासिधेन्वादिपूर्णेयः फलके तदा ।
वह्निप्रदीप्ते सहसा पर्यन्ते स्वां तनुं जहाँ ॥ ३१५ ॥
इत्येतस्मिञ्जनाम्नाये केचिदव्यभिचारिणि ।
प्राहुः पुरुषसिंहस्य क्रौर्य तस्याविगर्हितम् ॥ ३१६ ॥
कुलकम् ॥
ये नागेन रुषा पुष्टे नगरे प्राभवन्खशाः ।
तेषां नाशाय वृत्तान्तं पूर्वोक्तं जगदुः परे ॥ ३१७ ॥
अवतारयतस्तस्य चन्द्रकुल्याभिधां नदीम् ।
अशक्योन्मूलना मध्ये शिलाभूद्विघ्नकारिणी ॥ ३१८ ॥
ततः कृततपाः स्वप्ने देवैरुक्तः स भूपतिः ।
यक्षः शिलायां बलवान्ब्रह्मचार्यत्र तिष्ठति ॥ ३१९ ॥
साध्वी स्पृशति चेदेनां निरोद्धुं न स शक्नुयात् ।
ततोपरेधुः स्वप्नोक्तं शिलायां तेन कारितम् ॥ ३२० ॥
तासु तासु कुलस्त्रीषु व्यर्थयत्नास्वथाचलत् ।
चन्द्रवत्याख्यया स्पृष्टा कुलाल्या सा महाशिला ॥ ३२१ ॥
कोटित्रयं नरपतिः क्रुद्धस्तेनागसा ततः ।
सपतिभ्रातृपुत्राणामवधीत्कुलयोषिताम् ॥ ३२२ ॥
इयं चान्यमते ख्यातिः प्रथते तथ्यतः पुनः ।
अभव्या सनिमित्तापि प्राणिहिंसा गरीयसी ॥ ३२३ ॥
एवं क्षुद्रोपि यद्राजा संभूय न हतो जनैः ।
तत्कर्म कारयद्भिस्तदैवतैरेव रक्षितः ॥ ३२४ ॥
प्रजापुण्योदयैस्तीवैश्चिरात्तस्मिन्क्षयं गते ।
एकस्तत्प्रभवः पौरैः सदाचारोभ्यषिच्यत ॥ ३२५ ॥

१ बकः इत्युचितम् |