सांनिध्यं यस्य सैन्यान्तर्हन्यमानाशनोत्सुकान् ।
अजानन्गृध्रकाकादीन्दृष्ट्वाग्रे धावतो जनाः ॥ २९१ ॥
दिवारात्रं हतप्राणिसहस्रपरिवारितः|
योभूद्भूपालवेतालो विलासभवनेष्वपि ॥ २९२ ॥
बालेषु करुणा स्त्रीषु धृणा वृद्धेषु गौरवम् ।
न बभूव नृशंसस्य यस्य घोराकृतेर्घ्नतः ॥ २९२ ॥
स जातु देवीं संवीतसिंहलांशुककञ्चुकाम् ।
हैमपादाङ्कितकुचां दृष्टा जज्वाल मन्युना ॥ २९४ ॥
सिहलेषु नरेन्द्राङ्घ्रिमुद्राङ्ककः क्रियते पटः ।
इति कञ्चुकिना पृष्टेनोक्तो यात्रामदात्ततः ॥ २९५ ॥
तत्सेनाकुभ्मिदानाम्भोनिम्नगाकृतसंगमः ।
यमुनालिङ्गनप्रीतिं प्रयेदे दक्षिणार्णवः ॥ २९६ ॥
स सिहलेन्द्रेण समं संरम्भादुदपाटयत् ।
चिरेण चरणस्पृष्टप्रियालोकनजां रुपम् ॥ २९७ ॥
दूरात्तत्सैन्यमालोक्य लङ्कासौधैर्निशाचराः ।
भूयोपि राघवोद्योगमाशङ्क्य प्रचकम्पिरे ॥ २९८ ॥
स तत्रान्यं नृपं दत्त्वा तीव्रशक्तिरुपाहरत् ।
पटं यमुषदेवाख्यं मार्ताण्डप्रतिमाङ्कितम् ॥ २९९ ॥
व्यावृत्त्य चोलकर्णाटलाटादींश्च नरेश्वरान् ।
सिन्धुरानिव गन्धेनैव गन्धेनैव व्यदारयत् ॥ ३०० ॥
तस्मिन्प्रयते प्राप्तेभ्यः श्शंसुस्तत्पराभवम् ।
नगर्यो नरनाथेभ्यस्त्रुट्यदट्टलमे खलाः ॥ ३०१ ॥
काश्मीरं द्वारमासाद्य श्वभ्रभ्रष्टस्य दन्तिनः ।
श्रुत्वा स त्रासजं घोषं तोषरोमाश्चितोभवत् ॥ ३०२ ॥
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३५
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
राजतरङ्गिणी