गणितं गुणिना तेन मणींस्तृणमिवोज्झता ।
खण्डेन्दुमण्डनार्चायां मण्डनत्वमखण्डितम् ॥ २८० ॥
राज्ञस्तस्यैव राजश्रीः परलोकानुगाभवत् ।
यस्तामयोजयद्धूर्तो धर्मेणाव्यभिचारिणा ॥ २८१ ॥
षष्टिमब्दान्प्रशास्योर्वीमासन्नानुयुचरान्वितः ।
आरुरोह सदेहोसौ लोकाञ्शशिशिखामणेः ॥ २८२ ॥
भृत्या नरं समाश्रितः प्रययुः शोचनीयनाम् ।
तत्सुतं तु समालम्ब्य परभुं भुवनवन्यताम् ॥ २८३ ॥
यात्याश्रितः किल समाश्रयणीयलभ्यां
निन्द्यां गतिं जगति सर्वजनार्चितां वा ।
गच्छत्यधस्तृणगुणः श्रितकूपयन्नः
पुष्पाश्रयी सुरशिरोभुवि रूढिमेति ॥ २८४ ॥
सिद्धः सिद्धः सदेदोयमिति शब्दं सुरा दिवि।
प्रोद्धोषयंस्ताडयन्तः पटहं सप्त वासरान् ॥ २८५ ॥
उत्पलाक्ष इति ख्यातिं पेशलाक्षतया गतः ।
तत्सूनुस्त्रिंशतं सार्धा वर्षाणामन्वशान्महीम् ॥ २८६ ॥
तस्य सूनुर्हिरण्याक्षः स्वनामाङ्कं पुरं व्यधात् ।
क्ष्मां सप्तत्रिंशतं वर्षान्सप्त मासांश्च भुक्तवान् ॥ २८७ ॥
हिरण्यकुल इत्यस्य हिरण्योत्सकृदात्मजः ।
षष्टिं षष्टिं वसुकुलस्तत्सूनुरभवत्समाः ॥ २८८ ॥
अथ स्लेच्छगणाकीर्णे मण्डे चण्डचेष्टतः ।
तस्यात्मजोभून्मिहिरकुलः कालोपमो नृपः ॥ २८९. ॥
दक्षिणां सान्तकामाशां स्पर्धया जेतुमुद्यता ।
यन्मिषादुत्तरहरिदभारान्यमिवान्तकम् ॥ २९० ॥
१ प्राघोषयन् इत्युचितः पाठः ।