पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
राजतरङ्गिणी




श्वशुरानुग्रहान्नागीभूतस्यापि द्विजन्मनः ।
जामातृसर इत्यन्यत्तत्र च प्रथितं सरः ॥ २६८ ॥
प्रजानां पालनव्याजान्निःशङ्कक्षयकारिणः ।
अकस्मादन्तकाः केचित्संभवन्ति तथाविधाः ॥ २६९ ॥
अद्यापि तत्पुरं दग्धं श्वभ्रीभूतं च तत्सरः ।
उपचक्रधरं दृष्ट्वा कथेयं स्मर्यते जनैः ॥ २७० ॥
राज्ञां रागः कियान्नाम दोषः स्वल्पदृशां मते ।
तत्तस्य तेन संवृत्तं यन्नाभूत्कापि कस्यचित्‌ ॥ २८७१ ॥
सतीदैवतविप्राणामप्येकस्य प्रकोपतः ।
श्रुतो हि प्रतिवृत्तान्तं त्रैलोक्यस्यापि विप्लवः ॥ २७२ ॥
चत्वारिंशतमब्दान्स मासैश्चोनां त्रिभिः समाम्‌ ।
भुवं भुक्त्वा क्षितिवृषा दुर्नयेन क्षयं ययौ ॥ २७३ ॥
अप्यल्पकालसंदृष्टप्रकारातट्टालमण्डलम्‌ ।
तत्किनरपुरं लेभे गन्धर्वनगरोपमाम्‌ ॥ २७४ ॥
एकस्तु तनयस्तस्य वैचित्र्यात्कर्मणां गतेः ।
स्वधात्र्या विजयक्षेत्रं नीतः प्राणैर्ने तत्यजे ॥ २७५ ॥
राजा सिद्धाभिधः सोथ तथा निःशेषितं जनम्‌ ।
नवीचकार जलदो दावदग्धमिवालम्‌ ॥ २७६ ॥
इतिवृत्तं महाश्चर्यं तस्य पित्र्यं महामतेः 1
संसारासारताज्ञाने प्राप पुण्योपदेशाताम्‌ ॥ २.७७ ॥
भोगयोगेन मालिन्यं नेतुं मध्यगतोपि सः।
न शक्यते स्म पङ्केन प्रतिमेन्दुरिवामलः ॥ २७८ ॥
दर्पज्वरोष्णभूपालमध्ये निर्ध्यायतोनिदशम्‌ ।
सुधासूतिकलामौलि तस्यैवोल्लाघतोद्यौ ।॥ २७९. ॥