अथ निर्भर्त्सनां तस्मादपि प्राप्तवतासकृत् ।
हठेन हंर्तु तां राज्ञा समादिश्यन्त सैनिकाः ॥ २५६ ॥
तैर्गृहाग्रे कृतास्कन्दो निर्गत्यान्येन वर्त्मना ।
त्राणार्थी नागभवनं सजानिः प्राविशद्धिजः ॥ २५७ ॥
ताभ्यामभ्येत्य वृत्तान्ते ततस्तस्मिन्निवेदिते ।
कोधान्धः सरसस्तस्मादुज्ज्गाम फणीश्वरः ॥ २५८ ॥
उद्ग्रर्जज्जिह्यजीमूतजनितध्वान्तसंततिः।
स घोराशनिवर्षेण ददाह सपुरं नृपम् ॥ २५९ ॥
दग्धप्राण्यङ्गविगलद्वसासृक्स्त्रेहवहिनी ।
मयूरचन्द्रकाङ्केव वितस्ता समपद्यत ॥ २६० ॥
शरणाय प्रविष्टानां भयाच्चक्रधरान्तिकम् ।
मुहूर्तान्निरह्वन्तसहस्राणि शरीरिणाम् ॥ २६१ ॥
मधुकैटभयोर्भेदः प्रगूर्वोरिव चक्रिणम् ।
दग्धानां प्राणिनां तत्तत्तदा सर्वाङ्गमस्पृशत् ॥ २६२ ॥
स्वसा सुश्रवसो नागी रमण्याख्याद्व्रिगह्वरात् ।
सहायकायाश्मराशीन्समादाय तदाययौ ॥ २६२ ॥
सा योजनाधिके शेषे मार्गस्यारात्सहोदरम् ।
कृतकार्यं निशम्याश्मवर्षं ग्रामेषु तज्जहौ ॥ २६४ ॥
योजनानि ततः पञ्च जाता ग्रामधरा खिला ।
सा रमण्यटवीत्यध्याप्यस्ति स्थूलशिलाविला ॥ २६५ ॥
घोरं जनक्षयं कत्वा प्रातः सानुशयोप्यहिः ।
लोकापवादनिर्विण्णः स्थानमुत्सृज्य तद्योयौ ॥ २६६ ॥
दुग्धाब्धिधवलं तेन सरो दूरगिरौ कृतम् ।
अमरेश्वरयात्रायां जनैरद्यापि दृश्यते ॥ २६७ ॥
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३२
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
प्रथमस्तरङ्गः