३४९ सप्तमस्तरङ्गः
तथा बद्धोपि निर्दध्यौ स भव्यः प्रभवे हितम् ।
स्वामिभक्तिर्विपर्येति पर्यन्तेपि न मानिनाम् ॥ १३२३ ॥
तूर्ण पुरप्रवेशाय सोथ प्रैरयदुच्चलम् ।
विश्वास्य नेहगन्योस्ति क्षण इत्यसकृब्रुवन् ॥ १३२४ ॥
विशतस्तस्य चानेकैः पुरग्रामाद्यलुण्ठयत् ।
कर्मणानेन कौलीनमस्यास्त्विति विचिन्तयन् ॥ १३२५ ॥
परिहासपुरे तेन स ततः संप्रवेशितः ।
श्वभ्राम्बुविषमाद्यस्मान्निर्गमोत्यन्तदुर्गमः ॥ १३२६ ॥
तत्रोच्चलं चतुःशाले स्वं च दग्धुमचूचुदत् ।
निजान्स निशि ते तत्तु न चक्रुस्तद्धितैषिणः ॥ १३२७॥
यथा चित्तं तथास्य स्यात्कायश्चेत्साहसक्षमः ।
तदात्मनिरपेक्षस्य किं न सिध्येन्मनीषितम् ॥ १३२८ ॥
क्लीबश्छन्नवपुस्त्वचा सह वसत्यच्छेद्यया कच्छपो
निर्वर्मा रणकर्मसाहसमहोत्साहश्च सिंहः सदा ।
धिक्प्रादुष्कृतपक्षपातरअसो नीचेषु मुग्धो विधि-
वराणां कुरुते शरीरमझितो वैकल्यशल्याहतम् ॥१३२९॥
संदिदेशाथ समापमाकृष्यायं मयाग्रतः ।
सुगाल इव ते क्षिप्तः क्षिप्रं निर्गत्य वध्यताम् ॥ १३३० ॥
ततः समस्तसामन्तसैन्य संततिसंयुतः ।
अद्य मृत्युर्जयो वेति निश्चित्य निरगान्नृपः ॥ १३३१ ॥
स प्राणसंशये सर्वायासप्रशममादिशन् ।
पटहोद्धोषणेनासीत्पौरैरनुगतोखिलैः ॥ १३३२ ॥
प्राप्तं भरतसेत्वयं नन्तः सैन्यं विरोधि॑िनम् ।
आजानेयै राजभृत्याः क्षणान्मार्गमलङ्घयन् ॥ १३३३ ॥
१ विरोधिनाम् इति स्यात् ।