पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४८ राजतरङ्गिणी

काकाद्यवैद्यकुलजैर्योधैः संरुद्धपद्धतिः ।
स हुष्कपुरमुत्सृज्य क्रमराज्योन्मुखो ययौ ॥ १३११ ॥
अत्रान्तरे तमायान्तमाकर्ण्योत्सेकमागतैः ।
विद्रवोन्मुखतां निन्ये डामरैर्मण्डलेश्वरः ॥ १३१२ ॥
तैर्हि प्रागेव भङ्गं स नीतो हत्वा महाभटान् ।
यशोराजमुखान्भूरीन्ययौ मन्दप्रतापताम् ॥ १३१३ ॥
शनैरपसरन्सोथ तारमूलकमासदत् ।
उच्चलाधिष्ठितास्तेपि विद्विषन्तस्तमन्वयुः ॥ १३१४ ॥
समेतानन्तसैन्येन तेन तत्र चिरं धृतः ।
उच्चलप्रलयाभ्रस्य पौरस्त्यानिलविभ्रमः ॥ १३१५ ॥
सैन्ययोरुभयोस्तत्र जयश्रीकरिणीकृते ।
बभूव तुल्यसंघर्ष: सेर्ययोरिव दन्तिनोः ॥ १३१६ ॥
आनन्दनामाप्युत्पिञ्जोत्थानमुच्चलमातुलः

चक्रे मडवराज्येथ निबिडीकृतडामरः ॥ १३१७ ॥
तद्विप्लवे डामरौधा दिग्देशेभ्यः सहस्रशः ।
उन्ममजुर्हिमापाये रन्ध्रेभ्य इव षट्पदाः ॥ १३१८ ॥
तत्क्षणं क्षीणभाग्यस्य यथा द्वारपतिस्तथा ।
कार्यस्थः कम्पने राज्ञः सहेलोभून्महत्तमः ॥ १३१९ ॥
आनन्देन कृतास्कन्दो बहुशो विहिताहवः ।
औज्झीन्मडवराज्यं स न यत्तद्बह्वभूत्तदा ॥ १३२० ॥
अथाद्भुतप्रतापेन वेष्टयित्वा महाचमूम् ।
उच्चलेनाहवे बद्धः ससैन्यो मण्डलेश्वरः ॥ १३२१ ॥
f
न विद्मः किं तदा वृत्तं योधानां यत्किलाविदन् ।
ते सखड्गाश्वसंनाहा बद्धा वयमिति स्फुटम् ॥ १३२२ ॥