सामग्री पर जाएँ

पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ।

यं राजोदयसीहान्ते कपिलं क्षेमजात्मजम् ।
आस्थापयल्लोहरोय स विशन्तं मुमोच तम् ॥ १२९९ ॥
स्वयम समग्राणां खड्गचर्मधरो व्रजन् ।
पलायने पूर्वशिष्यान्पर्णोत्से तद्भटान्व्यधात् ॥ १३०० ॥
बद्धा निःशङ्कमासीनं द्वारेशं सुजकाभिधम् ।
कश्मीरानामिषाकाङ्क्षी क्षिप्रं श्येन इवापतत् ॥ १३०१ ॥
तं डामराश्च कतिचित्खाशिकाश्चाद्विसंश्रयाः ।
राजद्विषः प्राप्तमात्रं सर्वतः पर्यवारयन् ॥ १३०२ ॥
तमाकाशादिव स्रस्तं भुवो गर्भादिवोत्थितम् ।
निशम्यातर्कितं प्राप्तं चकम्पे हर्षभूपतिः ॥ १३०३ ॥
मा भूदसौ बद्धमूलः क्रमराज्यान्तरस्थिंतिम् ।
मा वधीन्मण्डलेशं च ध्यायन्नित्याकुलोथ सः ॥ १३०४ ॥
विलम्बमाने संनद्धसैनिके दण्डनायके |
त्वरितं प्राहिणोत्पट्टं वितीर्णासंख्यनायकम् ॥ १३०५ ॥
दैवोपहतवीय वा कान्तो वा द्रोहचिन्तया |
अभ्यमित्रीणतां त्यक्त्वा स तु मार्गे व्यलम्बत ॥ १३०६ ॥
अन्यांश्च यान्यांस्तिलकराजादीन्व्यसृजन्नृपः ।
ते ते पट्टं समासाद्य नाकुर्वन्नग्रनिर्गमम् ॥ १३०७ ॥
दण्डनायकमुख्येपि लोके राज्ञा विसर्जिते ।
याते विमूढतां प्राप बद्धमूलत्वमुञ्चलः ॥ १३०८ ॥
वराहमूलं प्रविशन्नागतां द्विषतां बलात् ।
३४७
अश्वां सुलक्षणोपेतां राजलक्ष्मीमिवासदत् ॥ १३०९ ॥
महावराहमौलिस्रक्तस्य मूर्ध्नि पपात च ।
तदंसस्थितया पृथ्व्या वरणार्थमिवार्पिता ॥ १३१० ॥

१ स्थितः इत्युचितम् |