+ सप्तमस्तरङ्गः ।
मन्त्रे भिन्ने निवृत्तं तं श्रुत्वा खशनृपान्तिकम् ।
कुप्यन्कलशराजोथ सज्जसैन्यः समाययौ ॥ १२७६ ॥
तमास्कन्दाय संप्राप्तं जानञ्शस्त्रभृतां वरः ।
ऐच्छद्रणाय निर्गन्तुं निजभृत्यैः सहोच्चलः ॥ १२७७ ॥
क्षोभे संप्रस्तुते तं स सान्त्वयित्वा खशाधिपः ।
तिष्ठन्कलशराजेन सहानिन्ये निजां सभाम् ॥ १२७८ ॥
निषेधाधायिनो भृत्यान्स विधूयौजसां निधिः ।
सजं खशसमाजं तं कोपकम्प्राधरोविशत् ॥ १२७९ ॥
द्रष्टुं तं नाशकत्कश्चित्कल्पान्तार्कमिवोल्वणम् ।
क्रुद्धं कलशराजो वा राजा वा तेजसां निधिम् ॥ १२८० ॥
स विविक्तीकृते धाम्नि खशाधीशं समत्रिणम् ।
सान्त्वयन्तं महातेजाः कोपरूक्षाक्षरोब्रवीत् ॥ १२८९ ॥
पूर्व दार्वाभिसारेभूद्भारद्वाजो नरो नृपः ।
नरवाहननामास्य सूनुः फुल्लमजीजनत् ॥ १२८२ ॥
स सार्थवाहनं तस्माच्चन्दोभूत्तत्सुतः सुतौ ।
गोपालसिंहराजाख्यौ चन्दराजोप्यवाप्तवान् ॥ १२८३ ॥
बह्वात्मजः सिंहराजो दिद्दाख्यां तनयां ददौ ।
क्ष्माभुजे क्षेमगुप्ताय सावीरा भ्रातृनन्दनम् ॥ १२८४ ॥
राज्ये संग्रामराजाख्यं व्यधादुदयराजजम् ।
३४५
भ्रातापि कान्तिराजोस्या जस्सराजमजीजनत् ॥ १२८५ ॥
पितानन्तस्य संग्रामो जस्सस्तन्वङ्गगुङ्गयोः ।
अनन्तः कलशक्ष्माभृगुङ्गान्मल्लोप्यजायत ॥ १२८६ |
कलशाद्धर्षदेवाद्या जाता मल्लात्तथा वयम् ।
कोयमित्यादि तन्मन्दैः क्रमेस्मिन्कथ्यते कथम् ॥ १२८७ ॥
१ अनन्तात् इत्युचितम् । ४४