पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४४ राजतरङ्गिणी

तं सूर्यवर्मचन्द्रस्य तनयो जनकाभिधः ।
चकारोपचितोत्साहं मायादूतैर्विसर्जितैः ॥ १२६४ ॥
वीक्ष्य डामरदूतांस्ताञ्जहता राजतो भयम् ।
व्यक्तं संग्रामपालेन निन्ये माहात्म्यमुच्चलः ॥ १२६५ ॥
स कार्यगौरवात्प्रहो मूर्ध्नि कर्पूरचूर्णनम् ।
कृत्वा तमविनाशाय यावद्विस्रष्टुमैहत ॥ १२६६ ॥
तावत्कलशराजाख्यस्तद्देशे मुख्यठक्कुरः ।
हर्षदेवार्पितोत्कोचस्तमेत्य विजनेब्रवीत् ॥ १२६७ ॥
राज्ञः प्रसादनं त्यक्त्वा तवोच्चलहितैषिणः ।
कामधेनुं विनिर्धूय च्छागकण्ठग्रहे ग्रहः ॥ १२६८ ॥
कोयं काश्मीरभूपानां कास्य शक्तिस्तपस्विनः ।
आराधनेन तद्राज्ञो विधेहि स्वमसाध्वसम् ॥ १२६९ ॥
अयं राजगिरौ दुर्गे स्थाप्यतां पार्थिवस्ततः ।
स्यान्मनीषितवर्षी वस्त्रासान्मित्रं च सर्वदा ॥ १२७० ॥
तेनेति प्रभुराख्यातः खशानां स मिताशयः ।
तद्भीतः स्वार्थलुब्धञ्च तथेति प्रतिपद्यत ॥ १२७१ ॥
तमभ्यधाच्च नो बन्दुं शक्तोहममुमुद्यतम् ।
त्वयैव बध्यतामेष मिषतः प्रेषितोन्तिकम् ॥ १२७२ ॥
इत्युक्त्वा तं स्ववसतिं विसृज्यावद्दुच्चलम् ।
प्रातः कलशराजस्य त्वया गन्तव्यमन्तिकम् ॥ १२७३ ॥
इह प्रधानामात्योसौ तेन ते स्यादनत्ययः ।
ततो विपक्षोच्छित्त्यै त्वां प्रतिमोक्ष्यामि सानुगम् ॥ १२७४॥
अथ तद्वसतिं गन्तुं चलितोन्येचुरुञ्चलः |
प्राग्दुर्निमित्तैस्तत्कृत्यमाप्तैरथ निबोधितः ॥ १२७५ ॥

१ प्रत्यपद्यत इत्युचितम् ।