पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४३
सप्तमतरङ्ग:

आसन्नवारवनिता थक्कनाख्याथ तं व्यधात्‌ ।
भूभर्तुर्दुरभिप्रायं तयोः कर्णपथातिथिम्‌ ॥ २२५२ ॥
सख्या दर्शनपालेन तत्रार्थे छिन्नसंशयौ ।
निरगातां निशीथिन्यां द्वित्रैस्तावनुगै:समम्‌ ॥ २२५३ ॥
षट्सप्तेब्दे नगरान्मार्गशीर्षेथ निर्गतौ ।
तत्रासवसतेः प्राप्तौ डामरस्योपवेशनम्‌ ॥ २२५४ ॥
प्रशस्तराजो दुध्रुक्षु: सिल्लराजं निजानुजम्।
सोभिसंधाय तौ निन्ये लवन्यो मण्डलान्तरम्‌ ॥ १२५५ ॥
ततो राजपुरीं ज्यायान्प्रयात्कह्रस्य भूपते: ।
कनीयान्प्रययौ पार्श्वं कालिञ्जरधरेशितुः ॥ १२५६ ॥
तयोर्भिंगतयो राज्यं न कथिच्छ्दधीयत ।
निभित्तज्ञेनं राज्ञैव दुर्निमित्तैस्त्वशङ्क्यत॥ १२५७ ॥
लक्षमीधरमुखेनैव प्रार्थनां हन्तुमुच्चलम्‌ ।
चक्रे संग्रामपालस्य सोङ्गीकृत्य धनं ततः ॥ १२५८ ॥
स त्वन्तिकागतस्येषन्मल्लसूनोः कृतादर: ।
तया विशङ्क्या शत्रोरासीदधिक गौरवः ॥ १२५९ ॥
आसन्नाभ्युदयं शत्रुं द्वेष्टैव विधिचोदितः ।
शाङ्काविष्करणाल्लोके नयेत्संभावनाभुवम्‌ ॥ १२६० ॥
राजपुर्या: प्रकृत्यैव कास्मीरानर्थकाङ्क्षिता::: ।
 प्रभविष्णौ रिपौ प्राप्ते चक्रिकायां किमुच्यताम्‌ ॥ १२६१९॥
 कांश्चिन्निकृतिक प्रायान्पार्श्वायातानथोच्चल: ।
गमागमान्कृतोदयोगो डामराणामकारयत्‌ ॥ १२६२ ॥
डामरास्तु मदोत्सा हास्तमानेतुं व्यसर्जयन् ।
 राज्ञा विप्रकृता दुतान्वितीर्णोपायनान्बहून् ॥ १२६३ ॥