पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३९
सप्तमस्तरङ्गः


तद्रोषेण जिघांसुस्तमागो जग्राह सोपरम्‌ ।
तस्य देवीविसृष्टाज्ञालेखोल्लङ्घनलक्षनणम् ॥ १२०६ ॥
प्राप्तो मडवराज्यात्स क्षमाभुजादत्तदर्शनः ।
भीतो लक्ष्मीधरस्यागान्मन्दिरं ठक्कमन्त्रिणः ॥ १२०७ ॥
राजा प्रसाद्यमानोपि तत्कृतेन्येन मन्त्रिणा ।
सस्मितं वीक्षितं सैन्यैस्तं सपुत्रमघातयत्‌ ॥ १२०८ ॥
कोपस्मितं नरपतेरकालकुसुमं तरोः ।
वेतालस्याट्टहसितं नैवमेव प्रशाम्यति ॥ १२०९ ॥
ये संप्ररुढविपुलप्रणयाभिमाना
निःशङ्कमीश्वरनिषेवणमाचरन्ति ।
मन्त्रानुषङ्करभसाद्भुजगेन्द्रसख्यं
प्रख्यापयन्त इव ते प्रलयं प्रयान्ति ॥ १२९१० ॥
कर्णेजपकुले तावन्मदनप्रलयावधिः ।
शापः सूर्यमतीदेव्याः प्रसारितभुजोभवत्‌ ॥ १२११ ॥
विक्रमालोकनोत्कम्पी निचिक्षेप क्षमापतिः ।
बध्वा कलशराजं तं लक्ष्मीधरनिवेशने ॥ १२१२ ॥
विरुद्धं तस्य बद्धस्य शिक्षापेक्षामिषानृपः ।
तेजोवधाय सविधमुदयाख्यं व्यसर्जयेत् ॥ १२१३ ॥
लक्ष्म्या जाज्वल्यमानं तं वीक्ष्य प्रज्वलितः क्रुधा ।
लब्धासिधेनुः कस्माच्चिन्मनस्वी सहसावधीत्‌ ॥ १२१४ ॥
तद्भृत्यैरथ संक्रुद्धैर्निपत्य स विपादितः ।
दुर्बुद्धेस्तस्य भूभर्तुरेवं भृत्या विपेदिरे ॥ १२१५ ॥
मण्डले राजदण्डेन क्षतेनेव परिक्षते ।
क्षारपातोपमान्यापि प्राभूद्दुः खपरम्परा ॥ १२१६ ॥