पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३८
राजतरङ्गिणी




नीतानां च हतानां च दरदैः प्रसृतोदयैः ।
अभून्नदीहृतानां च संख्या काचिन्न देहिनाम्‌ ॥ ११९५ ॥
अनाथवत्तथाभूतं सैन्यं त्रातुं कृतोद्यमः ।
एकस्तु सानुजो मानी नाचलन्माल्लिरुच्चलः ॥ ११९६ ॥
दरद्ववाबुधिर्धावन्स विश्वाक्रमणोद्यतः ।
ताभ्यां वेलगिरीन्द्राभ्यामिव संस्तम्भितोखिलः ॥ ११९७॥
तौ रक्षित्वा बलं प्राप्तौ प्रसिद्धिमतुलां गतौ ।
पतिंवरेव राजश्रीर्भेजे लक्ष्येण तेजसा ॥ ११९८ ॥
ततः प्रभृति लोकस्य सर्वस्यासीदसौ मतिः ।
राज्यार्हौ मानिनावेतौ क्लिबोयं न तु भूपतिः ॥ ११९९ ॥
तथा कृत्वापि यद्राज्ञे दर्शनं परिजह्रतुः ।
तौ प्रितिदायविमुखौ बबन्धास्थां ततो जनः ॥ १२०० ॥
अथ शान्तरिपुत्रासो नगरं प्राविशन्नृपः ।
प्रतापस्तु दिशः प्रायान्मल्लराजतनूजयोः ॥ १२०२ ॥
तौ रामलक्ष्मणावेताविति सर्वस्तदाब्रवीत् ।
रावणप्रतिमे राज्ञि भाव्यर्थानुगुणं वचः ॥ १२०२ ॥
राजा तु गतलज्जः स नित्यकृत्योपमं जडः ।
कर्तुं प्रारभताखिन्नः पुनर्मण्डलपीडनम् ॥ १२०३ ॥
अल्पापकारमपि पार्श्वगतिं निहन्ति
नीचो न दूरमसमागसमप्यरातिम्‌ ।
श्वा निर्दशत्युपलमन्तिकमापतन्तं
तत्यागिनं न तु विदूरगमग्ररोषः ॥ १२०४ ॥
ततः प्रविष्टः संप्रीतः सेवया दत्तकम्पनम्‌ ।
मदनं सोशृणोत्स्वैरं शंसन्तं तत्पराभवम्‌ ॥ १२०५ ॥




१ यद्राज्ञः इत्युचितम्‌ ।