पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३३
सप्तमस्तरङ्गः


स एवमन्धतामिस्त्रे निक्षिप्तः शाश्वतीः समाः ।
मुग्धबुद्धिः स्वजाड्येन दुर्जातैश्च कुमन्त्रिभिः ॥ १२१३६ ॥
मेघवाहनमुख्यानां कृते लोकोत्तरे यथा ।
सन्तद्याल्पधियः केचित्संदेहान्दोलिताशयाः ॥ ११२३७ ॥
तथास्मिन्नपि दुष्कृत्ये वर्ण्यमानेद्भुतावहे ।
भविष्यतीव कालेन नूनमप्रत्ययो जनः ॥ ११३८ ॥
राज्ये बहुच्छले तादृग्दुर्नीत्योपहतोप्यभूत्‌ ।
आयुःशेषेण न वशे स रन्ध्रान्वेषिणां द्विषाम्‌ ॥ ११३९. ॥
नर्तकी: शिक्षयव्रात्रावुत्थायाभिनयं स्वयम्‌ ।
तिष्टन्दीपोज्ज्वले धाम्नि दूरात्केनापि शत्रुणा ॥ ११४० ॥
क्षिप्तेषुरपि नाभूद्यन्निहतो व्रणितोथवा ।
फलं तस्यायुःशेषस्य प्रजानां कुकृतस्य वा ॥ ११४१ ॥
कश्चिदेवान्त शुद्धान्ते पातदूतो महीपतेः ।
सर्वशुद्धनिधेः प्राभून्नारीचारित्रविप्लवः॥ ११४२ ॥
ते युवानो मदोन्मत्तास्ताः स्त्रियो यौवनोन्मदाः ।
नाशाय हर्षदेवस्य तस्मिन्नेवाभवन्क्षणे ॥ ११४३ ॥
निगृहीतास्तेन रोषात्सजाराः काश्चन स्त्रियः ।
काश्चित्वाकृष्य शुद्धान्ताज्जारैर्नीता दिगन्तरम्‌ ॥ ११४४ ॥
स्वेन दौःशील्यदोषेण सर्व एव विशङ्किताः ।
भृत्यास्तस्याशुभान्येच्छन्नयतन्त च शान्तये ॥ ११४५ ॥
तस्यापि शीलवैकल्यं तावत्सर्वत्र पप्रथे ।
यावत्कलशभूपालात्संजातस्योपपद्यते ॥ ११४६ ॥
शैशवे वर्धितो याभिरङ्कमारुह्य मातृभिः ।
सोङ्कमारोप्य ता एव चुम्बन्संबेजेनिशम्‌ ॥ ११४७ ॥

१ कृत्ये इत्युचितम्‌ । २ तदायुःशेषस्य इत्युचितम्‌ । ३ आरोप्य इति स्यात्‌