पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ।

नप्ता हलधरस्याथ विटो लोष्टधराभिधः ।
जगाद निर्जने जातु राजानं रञ्जनेच्छया ॥ १०७६ ॥
युग्मम् ॥
३२७
ह्रियतां ग्रामहेमादि कलशेश्वरसंश्रयम् ।
तत्प्रसादाश्मभिः सेतुं वितस्तायां करोमि ते ॥ १०७७ ॥
आलेख्यं गगने लिखामि बिसिनीसूत्रैर्वयाम्यम्बरं
स्वप्नालोकितमानयामि कनकं ग्रामि वप्रं हिमैः ।
इत्याधुक्तमपि स्फुटं जडमतिर्जानाति सत्यं नृपो
यस्तादृक्त्रपया न वक्ति स गतप्रौढिः परं वञ्ज्यते ॥ १०७८
निषिषेध चिकीर्षा तु प्रयागस्तामपि प्रभोः ।
सदुपस्थायिकोपथ्याभ्यर्थनामिव रोगिणः ॥ १०७९ ॥
अथ लोष्टधरो हास्यावसरे जातु भूपतिम् ।
बद्धस्य मोक्षो देवस्य क्रियतामित्यभाषत ॥ १०८० ॥
स्मित्वा किमेतदित्युक्तवन्तं तं स व्यजिशपत् ।
तंदभुण्डपुरे भीम चाँहिरभूत्पुरा ॥ १०८१ ॥
विरोधात्परिपत्यानां तत्कृतो भीमकेशवः ।
राज्ये कलशदेवस्य बद्धद्वारोभवच्चिरम् ॥ १०८२ ॥
तैः शान्तवैरैर्विदधे यदाथ विवृताररिः ।
चौरापहृतदुर्वर्णकवचो ददृशे तदा ॥ १०८३ ॥
भूयोपि चक्रे तद्भीत्या कोशसामग्र्यभागिति ।
ततः प्रभृत्यद्य यावद्वद्धद्वाराररिः स्फुटम् ॥ १०८४ ॥
आदीयतां तदीयस्तत्कोशश्चौरभयावहः ।
सोपि बन्धाद्विमुक्तोस्तु पुष्पदीपादिभोगभाक् ॥ १०८५ ॥

१ तत्प्रासादाश्मभिः इति समुचितः पाठः । २ उदभाण्डपुरे इति स्यात् । ३ शाहिः इति स्यात् । ४ पारिषद्यानां इति स्यात् ।