पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ राजतरङ्गिणी

हतानामपि सौन्दर्य तेषामद्यापि वर्ण्यते ।
कथान्तरे वयोवृद्धैर्वद्धास्रुस्यन्ददुर्दिनैः ॥ १०६६ ॥
सतताभ्यस्तताम्बूलैः स्रस्तैस्तद्दशनाङ्कुरैः ।
कीर्णगोणाश्ममालेव सुचिरं वध्यभूरभूत् ॥ १०६७ ॥
वृद्धिमानीतयो राज्ञाप्युत्कर्षापत्ययोस्ततः ।
ज्यायान्प्रमिभ्ये डोम्वाख्यो गूढदण्डैः कुलच्छिदा ॥ १०६८॥
स्फुलिङ्गमिव संभाव्य तेजोविस्फूर्जितं शिशुम् ।
जघान जयमल्लं च तद्वद्विजयमल्लुजम् ॥ १०६९ ॥
गोप्तॄन्स्वगोत्रजान्हत्वा भोक्तुमेकस्य कस्यचित् ।
कुर्वन्ति दैवोपहता राज्यं निष्कण्टकं नृपाः ॥ १०७० ॥
संरूढं मधुगोलमुञ्चविटपव्यूहावलीगहरे
मूढः कर्तुमकृच्छ्रहार्यमभितः कस्यापि भव्यात्मनः ।
दैवप्रेरणया प्रकम्पविवश: पत्रप्रहारैर्हढं
(
तद्गोप्तॄन्मधुपान्निहत्य शमयत्यश्वत्थपृथ्वीरुहः ॥ १०७१ ॥
शातिद्रोहमहापाप्मनष्टधीरथ पार्थिवः ।
डिम्बानामप्यसंभाव्यामभजद्विटभोज्यताम् ॥ १०७२ ॥
वामनस्यात्मजः क्षेमस्तं जानञ्जनकद्विषम् ।
गैरयत्कलशेशस्थच्छत्र हेमनिवर्हणे ॥ १०७३ ॥
तामिच्छामच्छिनत्तस्य भक्तो युक्त्या प्रयागकः ।
धावतः श्वभ्रपातेच्छां धीरो यन्तेव दन्तिनः ॥ १०७४ ॥
अनिशं नष्टचेष्टानां शवानामिव भूभुजाम् ।
अन्तः प्रवेशकुशलो यो वेताल इवाभवत् ॥ १०७५ ॥

१ शोणाश्म इत्युचितम् । २ डिम्भानां इत्युचितम् ।